पञ्चतन्त्र · अध्याय 0
पञ्चतन्त्रम्
कथा-मुखम्
ओं नमः श्री-शारदा-गणपति-गुरुभ्यः । महा-कविभ्यो नमः ।
ब्रह्मा रुद्रः कुमारो हरि-वरुण-यमा वह्निर् इन्द्रः कुबेरश्
चन्द्रादित्यौ सरस्वत्य्-उदधि-युग-नगा वायुर् उर्वी-भुजङ्गाः ।
सिद्धा नद्यो ऽश्विनौ श्रीर् दितिर् अदिति-सुता मातरश् चण्डिकाद्या
वेदास् तीर्थानि यक्षा गण-वसु-मुनयः पान्तु नित्यं ग्रहाश् च ॥
मनवे वाचस्पतये शुक्राय पराशराय स-सुताय ।
चाणक्याय च विदुषे नमो ऽस्तु नय-शास्त्र-कर्तृभ्यः
सकलार्थ-शास्त्र-सारं जगति समालोक्य विष्णुशर्मेदम् ।
तन्त्रैः पञ्चभिर् एतच् चकार सुमनोहरं शास्त्रम्
तद् यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थि-सार्थ-कल्प-द्रुमः प्रवर-नृप-मुकुट-मणिम् अजरीचयचर्चितचरण-युगलः सकल-कल्प-पारङ्गतो ऽमरशक्तिर् नाम राजा बभूव । तस्य त्रयः पुत्राः परम-दुर्मेधसो वसुशक्तिर् उग्रशक्तिर् अनेकशक्तिश् चेति नामानो बभूवुः ।
अथ राजा तान् शास्त्र-विमुखान् आलोक्य सचिवान् आहूय प्रोवाच-भोः ज्ञातम् एतद् भवद्भिर् यन् ममैते त्रयो ऽपि पुत्राः शास्त्र-विमुखा विवेक-हीनाश् च । तद् एतान् पश्यतो मे महद् अपि राज्यं न सौख्यम् आवहति । अथवा साध्व् इदम् उच्यते-
अजात-मृत-मूर्खेभ्यो मृताजातौ सुतौ वरम् ।
यतस् तौ स्वल्प-दुःखाय यावज्-जीवं जडो दहेत्
वरं गर्भ-स्रवो वरम् ऋतुषु नैवाभिगमनं
वरं जातः प्रेतो वरम् अपि च कन्यैव जनिता ।
वरं बन्ध्या भार्या वरम् अपि च गर्भेषु वसतिर्
न चाविदग्धान् रूप-द्रविण-गुण-युक्तो ऽपि तनयः
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
को ऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान्
तद् एतेषां यथा बुद्धि-प्रबोधनं भवति तथा को ऽप्य् उपायो ऽनुष्ठीयताम् । अत्र च मद्-दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयताम् इति ।
तत्रैकः प्रोवाच-देव द्वादशभिर् वर्षैर् व्याकरणं श्रूयते । ततो धर्म-शास्त्राणि मन्व्-आदीनि अर्थ-शास्त्राणि चाणक्यादीनि काम-शास्त्राणि वात्स्यायनादीनि । एवं च ततो दर्मार्थ-काम-शास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति ।
अथ तन्-मध्यतः सुमतिर् नाम सचिवः प्राह-अशाश्वतो ऽयं जीवितव्य-विषयः । प्रभूत-काल-ज्ञेयानि शब्द-शास्त्राणि । तत् सङ्क्षेप-मात्रं शास्त्रं किञ्चिद् एतेषां प्रबोधनार्थं चिन्त्यताम् इति । उक्तं च यतः-
अनन्तपारं किल शब्द-शास्त्रं
स्वल्पं तथायुर् बहवश् च विघ्नाः ।
सारं ततो ग्राह्यम् अपास्य फल्गु
हंसैर् यथा क्षीरम् इवाम्बुध्यात्
तद् अत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकल-शास्त्र-पारङ्गमश् छात्र-संसदि लब्ध-कीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति इति ।
स राजा तद् आकर्ण्य विष्णुशर्माणम् आहूय प्रोवाच-भो भगवन् मद्-अनुग्रहार्थम् एतान् अर्थ-शास्त्रं प्रति द्राग् यथानन्य-सदृशान् विदधासि तथा कुरु । तदाहं त्वां शासन-शतेन योजयिष्यामि ।
अथ विष्णु-शर्मा तं राजानम् आह-देव श्रूयतां मे तथ्य-वचनम् । नाहं विद्या-विक्रयं शासन-शतेनापि करोमि । पुनर् एतांस् तव पुत्रान् मास-षट्केन यदि नीति-शास्त्रज्ञान् न करोमि ततः स्व-नाम-त्यागं करोमि ।
अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा स-सचिवः प्रहृष्टो विस्मयान्वितस् तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिम् आजगाम । विष्णुशर्मणापि तान् आदाय तद्-अर्थं मित्र-भेद-मित्र-प्राप्ति-काकोलूकीय-लब्ध-प्रणाश-अपरीक्षित-कारकाणि चेति पञ्च-तन्त्राणि रचयित्वा पाठितास् ते राजपुत्राः । तेऽपि तान्य् अधीत्य मास-षट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्य् एतत् पञ्चतन्त्रकं नाम नीति-शास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम् । किं बहुना-
अधीते य इदं नित्यं नीति-शास्त्रं शृणोति च ।
न पराभवम् आप्नोति शक्राद् अपि कदाचन
मूल पाठ: Pañcatantra · Edition: Ramchandra Jha, 6th edition, Varanasi : Chowkhamba Vidyabhavan, 1991. (Vidyabhavan Sanskrit Grantha Mala, 17) Also consulted: ed. by M.R. Kale. Delhi : Motilal Banarsidass, reprint. 1991. · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0