पञ्चसायक · अध्याय 5
इति श्रीकविशेखरज्योतिरीश्वरविरचिते पञ्चसायके चतुर्थः सायकः ।
अथ पञ्चमः सायकः ।
अथ नाडीसमुद्देशः ।
मनोभवागारमुखे तु नाड्यस्तिस्रो भवन्ति प्रमदाजनानाम् ।
समीरणा चान्द्रमसी च गौरी विशेषमासामुपवर्णयामि
प्रधानभूता मदनातपत्रे समीरणा नाम विशेषनाडी ।
तस्या मुखे यत्पतितं नृवीर्यं तन्निष्फलं स्यादिति चन्द्रमौलिः
या चापरा चान्द्रमसी च नाडी कन्दर्पगेहे भवति प्रधाना ।
सा सुन्दरी योषितमेव सूते साध्या भवेदल्परतोत्सवेन
गौरीति नाडी यदुपस्थदेशे प्रधानभूता भवति स्वभावात् ।
पुत्रं प्रसूते बहुधा ऽङ्गना सा कष्टोपभोग्या सुरते प्रदिष्टा
अथोत्तानबन्धसमुद्देशः ।
प्रसारितोरूद्वयमध्ययोगाद्गाढा ऽपि नारी श्लथतामुपैति ।
संलग्नजानुद्वयबन्धयुक्ता श्लथा ऽपि सङ्कोचमलं प्रयाति
तस्या युवत्याः प्रकृतिं च सत्त्वं देशं च भावं मदनातपत्रम् ।
आलोक्य बन्धाः परिकल्पनीयाः सम्भोगकाले पुरुषै रसज्ञैः
उत्तानसुप्तप्रमदोरूमध्ये स्थितः पतिः कामयते प्रकामम् ।
तयोर्द्वयोः प्रीतिकरः प्रदिष्टो बन्धो नराणामतिदुर्लभो ऽयम्
उत्तानसुप्ता युवतिः स्वपादौ स्कन्धे समारोप्य रमेन्नरस्य ।
बन्धो ऽयमुक्तः समपादसञ्ज्ञः प्रयोजनीयः करिणीरतेषु
एवंविधायाः स्त्रिय एव जङ्घां कान्तः स्वजङ्घोपरि सन्निवेश्य ।
उद्भ्रम्य भूयः कटिमारमन्त्याः स्यादेष बन्धः किल नागराख्यः
धृत्वा स्वजानुं गगने स्वपादौ शय्यातले स्त्री प्रथमं प्रसुप्ता ।
कुचौ पतिः पाणियुगेन धृत्वा रमेत्तदा व्योमपदाभिधानम्
एकं युवत्याश्चरणं पृथिव्यामूर्ध्वं तथा ऽन्यं परिकल्य कान्तः ।
पद्भ्यां स्थितो हस्तयुगं च भूमौ त्रैविक्रमः स्यादिति वन्धराजः
नितम्बबिम्बं किल नायकेन नार्यास्त्रिकं हस्तयुगेन धृत्वा ।
गुल्फौ निधाय स्थित एव तस्या बन्धो ऽप्यसौ चाटुककेलिकः स्यात्
कान्तस्य वक्षःस्थलगौ च (स्व)पादाव् आलिङ्ग्य गाढं प्रमदा कराभ्याम् ।
किञ्चिन्नतोरुद्वययोगतश्च ज्ञेयो बुधैरित्यवदारितो ऽयम्
अथ पार्श्वबन्धसमुद्देशः ।
एकं युवत्या हृदये स्वपादं तथा ऽर्पितं तल्पगतं तदन्यम् ।
प्रौढाङ्गनावल्लभ एष बन्धः ख्यातः पृथिव्यामुपवीतिकाख्यः
ऊर्वोः पतिर्मध्यगतो युवत्याः पार्श्वस्थितायाः परिरभ्य देहम् ।
यूनोस्त्रिकालोलनतो रसज्ञैरत्यादृतः सम्पुटनामधेयः
पार्श्वस्थितायाः मृगशावकाक्ष्याः पृष्ठावलम्बी रमणः प्रसुप्तः ।
लिङ्गस्मरागारनिवेशयोगादिहोपदिष्टः खलु नागबन्धः
अथोपविष्टबन्धसमुद्देशः ।
पद्मासनं सम्परिकल्प्य भर्ता क्रोडोपविष्टां युवतिं रमेच्च ।
अन्योन्यकण्ठार्पितबाहुयोगात् पद्मासनाख्यं प्रवदन्ति सन्तः
कान्तो नितम्बस्थित एव नार्याः श्रोणीं कराभ्यां यदि याति धृत्वा ।
आस्फालयेद्वा ऽपि कटिप्रबन्धात् प्रोक्तो मुनीण्द्रैरिति कीर्तिबन्धः
अथाधोमुखबन्धसमुद्देशः ।
अधोमुखस्थां रमयेच्च नारीं तत्पृष्ठवर्ती पशुतुल्यरूपः ।
भर्ता परिक्रीडति भावहीनो निर्दिश्यते हारिणबन्ध एषः
दन्तावलच्छागतुरङ्गमाणां क्रीडाप्रकारैश्च भवन्ति बन्धाः ।
इत्थं रसज्ञैरनुलापनीया नोदाहृता विस्तरभीतितस्ते
ऊर्ध्वबन्धसमुद्देशः ।
अन्योन्यदोःपञ्जरमध्यजातः स्तम्भो यदा बाहुयुगेन लग्नः ।
निष्पीड्य नारी पतिमूर्ध्वसंस्थं रमेत्तदा व्यात्तकरं वदन्ति
एको युवत्या यदि कान्तहस्ते जानु स्थितः स्यादपरः पृथिव्याम् ।
कान्तं कराभ्यामुपगूह्य यत्स्याज्ज्ञेयं रसज्ञैः करणं त्रिपादम्
अथ पुरुषायितसमुद्देशः ।
अधोमुखी कान्तहृदि प्रसुप्ता दोर्भ्यां समालिङ्ग्य यदि प्रयाति ।
गा(प्रौ)ढाङ्गनावल्लभ एष तज्ज्ञैः बन्धः प्रदिष्टो विपरीतरूपः
धूर्त ! त्वमेवं विजितो ऽस्यकस्माद्युद्धे मया पञ्चशरस्य नारी ।
इत्यादिकं भूरिविधं रटन्ती प्रायः सुखं विन्दति केलिरङ्गे
विपरीतरतावयोग्यां स्त्रियं दर्शयति ।
नवप्रसूता ऋतुयोगयुक्ता गर्भालसा स्थूलतनुर्नताङ्गी ।
क्षीणा नवोढा ज्वरिता च नारी वर्ज्या रतिज्ञैर्विपरीतबन्धे
अथ सन्ताडितसमुद्देशः ।
वामस्वभावान्मदनस्य रागो हस्तप्रहारात्समुपैति वृद्धिम् ।
तस्माद्यथास्थानमसौ विधेयो वराङ्गनायाः सुरतावसाने
यद्यङ्गना कान्तहृदि प्रहारं मुष्ट्या भजन्ती सुरतोपचारैः ।
सन्ताडितं नाम वदन्ति तज्ज्ञा विस्तीर्णहस्तेन तदा पताकम्
साङ्गुष्ठमध्याङ्गुलसम्प्रहारात् सञ्जायते कुण्डलनामधेयः ।
यः केवलाङ्गुष्ठभवो ऽभिघातः प्रोक्तः कवीन्द्रैः स तु बिन्दुमालः
द्रवति यदि न नारी प्रौढरागार्तियुक्ता मृदुनिधुवनयोगे दन्तसन्धौ सलीलम् ।
पिबति दशनवासः किञ्चिदुन्मुच्य भूयः कथितमिह रसज्ञैः सीत्कृतं रागकारि
पिकशिखिकलहंसप्रायपक्षिवृजानां ध्वनितमनुकरोतीत्यङ्गना मन्मथार्ता ।
मुखदशनविवर्तात्तत्कवीन्द्रा वदन्ति स्तनितमिति समासाच्चित्रसम्भोगकाले
एवंविधकरणस्य फलं निरूपयति ।
इत्यादियोगैः पृथुकामभावं सम्पाद्य नारीपुरुषौ चिरेण ।
जातानुरागौ रहसि प्रकामं सौख्यं समास्वादयतो महीयः
अष्टानायिकासमुद्देशः ।
यस्याः पतिर्मिलति केलिकथानुरक्तः पार्श्वं न मुञ्चति मनोभववेगयुक्तः ।
स्यात्सुन्दरी सकलसौख्यकलानिधाना स्वाधीनपूर्वपतिकेति वदन्ति तज्ज्ञाः
पुष्पाङ्गरागरुचिरा तरुणी प्रियस्य तिष्ठत्यनागमनहेतुविचारलोला ।
एषा ऽबला न हि चिरं परिदेवनीया सोत्कण्ठितेति कथिता कविभिः पुराणैः
स्रक्चन्दनाम्बरविभूषणभूषिताङ्गी या वल्लभागमनमार्गविरूढदृष्टिः ।
तल्पं गता रुचिरवासगृहे ऽवशेते सा कीर्तिता जगति वासकसज्जितेति
क्रोधात्प्रयाति चरणे पतितो ऽपि कान्तः प्रायः प्रचण्डवचनाच्चरणैर्निरस्तः ।
पश्चात्तदीयविरहक्षरदानताङ्गी सा कीर्तितेह कलहान्तरिता कवीन्द्रैः
सङ्केतकं प्रियतमः स्वयमेव दत्त्वा नैवागतः समुचिते समये च यस्याः ।
हृष्टा वचो ऽमृतरसैः सकलाङ्गयष्टिः सा वर्णिता कविवरैरिह विप्रलब्धा
प्रातर्विनिद्रवदनस्मरभारचौरो निद्रालसो ऽलसगतिर्नखविक्षताङ्गः ।
यस्याः प्रयात्यभिमुखं मुहुशो युवत्याः सा खण्डितेति कथिता कविभिः पुराणैः
आरम्भभग्नचरिता विकला च नारी या निर्मिता हि मदनेन मदेन याति ।
गुप्ताभिसाररसिका परवेश्म गन्तुं सा कीर्तिता कविवरैरभिसारिकेति
देशान्तरं प्रतिवसद्रमणश्च यस्या दत्त्वा ऽवधिं चिरतरं गुरुकार्ययोगात् ।
दुर्वारदुःखदहनैः परिदेविताङ्गी सा प्रोषितप्रियतमा कथिता मुनीन्द्रैः
ग्रन्थोपसंहारः ।
यावच्चन्द्रकलाकिरीटहृदये शैलाधिराजात्मजा यावद्वक्षसि माधवस्य कमला सानन्दमादीव्यति ।
यावत्कामकलाविवर्तचटुलं क्षोणीतलं राजते तावच्छ्रीकविशेखरस्य कृतिनः काव्यं मुदे दीव्यताम्
मूल पाठ: Pañcasāyaka · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0