भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चसायक · अध्याय 1

1.1

कविशेखरेतिबिरुदवता ज्योतिरीश्वरेण विरचितः
पञ्चसायकः ।
प्रथमः सायकः ।
मङ्गलाचरणम् ।
रतिपरिमलसिन्धुः कामिनीकेलिबन्धुर् विहितभुवनमोदः सेव्यमानप्रमोदः ।
जयति मकरकेतुर्मोहनस्यैकहेतुर् विरचितबहुसेवः कामिभिः कामदेवः

1.2

ग्रन्थकर्तुरात्मपरिचयप्रदर्शनम् ।
अस्ति प्रत्यहमर्थितापहरणप्रीत्यैकदीक्षागुरुः श्रीकण्ठार्चनतत्परो भुवि चतुःषष्टेः कलानां निधिः ।
सङ्गीतागमसत्प्रमेयरचनाचातुर्यचिन्तामणिः प्रख्यातः कविशेखराङ्कितपदः श्रीज्योतिरीशः कृती

1.3

दृष्ट्वा मन्मथतन्त्रमीश्वरकृतं वात्स्यायनीयं मतं गोणीपुत्रकमूलदेवरचितं बाभ्रव्यवाक्यामृतम् ।
श्रीनन्दीश्वररन्तिदेवभणितं क्षेमेन्द्रविद्यागमं तेनाकल्प्यत पञ्चसायक इति प्रीतिप्रदः कामिनाम्

1.4

नायकलक्षणम् ।
साचारः करुणामयः कृतमतिर्दाता ऽवदाताशयः काम्यः कामकलानिधिः सुवचनः स्त्रीणां मतः सुन्दरः ।
आढ्यो नीतिपटुः क्षमी च कुतुकी शूरः कुलीनो युवा सङ्क्षेपादिह नायको निगदितः सङ्गीतशिक्षान्वितः

1.5

पीठमर्दलक्षणम् ।
आचारे विनये नये च सुकृतौ तौर्यत्रिके ऽकृत्रिमः शास्त्रे कौतुकशिल्पनाटकविधौ नानाकलाकौशले ।
ऊहापोहसमस्तनर्मघटने भावेङ्गितज्ञः पटुर् मन्त्रज्ञः स्थिरसौहृदः सुवचनः स्यात्पीठमर्दः सदा

1.6

पद्मिनीलक्षणम् ।
सम्पूर्णेन्दुमुखी विलोलनयना पीनस्तनी दक्षिणा मृद्वङ्गी विकचारविन्दसुरभिः श्यामा ऽथ गौरद्युतिः ।
अल्पाहाररता विलासकुशला हंसस्वना मानिनी लज्जालुर्गुरुदेवपूजनरता सा नायिका पद्मिनी

1.7

चित्रिणीलक्षणम् ।
श्यामा पद्ममुखी कुरङ्गनयना क्षामोदरी वत्सला सङ्गीतागमवेदिनी वरतनुस्तुङ्गस्तनी शिल्पिनी ।
विद्यालापरता मतङ्गजगतिर्माद्यन्मयूरस्वना विज्ञेया कविशेखरप्रणयिनी चित्रस्वना चित्रिणी

1.8

शङ्खिनीलक्षणम् ।
तन्वङ्गी कुटीलेक्षणा लघुकुचाभोगा मदावेशिनी प्रायो दीर्घकचा स्वभावपिशुना कष्टोपभोग्या रते ।
पिङ्गा लोलगतिश्च घर्घररवा रक्ताम्बाराह्लादिनी नानास्थाननखप्रदानरसिका सेयं मता शङ्खिनी

1.9

हस्तिनीलक्षणम् ।
पीनस्वल्पतनुर्भृशं मृदुगतिः क्रूरा नमत्कन्धरा स्तोकापिङ्गलकुन्तला पृथुकुचा लज्जाविहीनानना ।
बिम्बोष्ठी बहुभोज्यभोजनरुचिः कष्टैकसाध्या रते गौराङ्गी करिदानगन्धिमदनस्रावा मता हस्तिनी

1.10

पद्मिन्यादीनां रतौ सुखकरास्थितयः ।
ब्रह्मास्येन्दुशराक्षिसङ्ख्यतिथयः ख्याता नलिन्या रते पौलस्त्यास्यरसाष्टभास्करतिथौ प्रीता भवेच्चित्रिणी ।
रुद्रानगतुरङ्गशम्भुतिथिषु स्याच्छङ्खिनी मोदिता शेषाः स्युः सुरतोत्सवेषु करिणीजातेः स्त्रियाः प्रीतये

1.11

इति जातिसमुद्देशः ।
चन्द्रकलानिरूपणम् ।
अङ्गुष्ठे चरणे नितम्बनिलये जानुद्वये जङ्घयोर् नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोले ऽधरे ।
नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवाम् ऊर्ध्वाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः

1.12

सीमन्ते नयने ऽधरे च गलके कक्षातटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटोरुद्वये ।
गुल्फे पादतले तदङ्गुलितले ऽङ्गुष्ठे च तिष्ठत्यसौ वृद्धिक्षीणतया समं शशिकला लीलाकरी योषिताम्

1.13

चन्द्रकलायाः प्रदीपनविधिः ।
मौलौ कुन्तलकर्षणं नयनयोराचुम्बनं गण्डयोर् दन्तेनाधरपीडनं हृदि हतिर्मुष्ट्या च नाभौ शनैः ।
कक्षाकण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः सीमन्ते लिखनं नखैरुरसिजौ गृह्णीत गाढं ततः

1.14

कुर्वीताविरतं मनोभवगृहे मातङ्गलीलायितं जान्वङ्गुष्ठपदोरुगुल्फकलनं ह्यन्योन्यतः कामिनोः ।
इत्येवं कथितं प्रदेशकलनादिन्दोः कलादीपनं कर्तव्यं च नरैर्न विस्तरभयादुक्तः प्रपञ्चो ऽखिलः

1.15

पद्मिनीचन्द्रकलाप्रदीपनम् ।
गाढालिङ्गनपूर्वकं कररुहैरालिख्य जङ्घास्थलीं दत्त्वा सूक्ष्मनखान्नितम्बफलके पार्श्वे च पृष्ठोदरे ।
सीत्कारध्वनिजागरूकपुलकामाद्ये दिने पद्मिनीम् इत्थं चन्द्रकलाविदः स्ववशतां कामं नयेयुः स्त्रियम्

1.16

आचुम्ब्याधरपल्लवं स्तनमुखे नेत्रालिके पार्श्वयोर् मूर्धान्ते जघनस्थलोरुफलके कृत्वा नखालेखनम् ।
मर्षन्तो नखरैः पदाम्बुजयुगं सम्यक्कुरङ्गीदृशं संसेव्याविरतं प्रबुद्धमदनां कुर्युर्द्वितीयादिने

1.17

श्लिष्ट्वा गाढतरं निपीड्य च कुचौ पीत्वा च दन्तच्छदं वामोरौ करजक्षतं भुजलतामूले विशेषात् पुनः ।
मायूराङ्घ्रिकमर्धचन्द्रछुरितप्रायान्नखानादराद् दद्युर्बाह्यरतोपचारचतुराः प्रायश्चतुर्थ्यां तिथौ

1.18

बिम्बोष्ठं परिचुम्ब्य दक्षिणकरेणाकृष्य केशोच्चयं स्वच्छन्देन विमृद्य चूचुकयुगं चुम्बन्प्रियां भावयेत् ।
आमृश्यात्करजैः सखेलपुलकं भूयो नितम्बस्थलीं पञ्चम्यां द्रवतां नयेत्कमलिनीमित्याह वात्स्यायनः

1.19

चित्रिण्याश्चन्द्रकलाप्रबोधनविधिः ।
चुम्बित्वा ऽलि(ल)कमुन्मदः कररुहैरालिख्य वक्षोजकं श्रोणीपृष्ठभुजाङ्घ्रिकर्णजघनस्थानोरुयुग्मस्थलीम् ।
पाणिभ्यामुपगूहयन् स्वरमणीं कान्तो दशम्यां तिथौ कन्दर्पं प्रतिबोध्य चन्द्रकलया कुर्यान्निजां चित्रिणीम्

1.20

श्लिष्ट्वा कन्धरकन्दलीं भुजलतापाशेन गाढं पुनः पायं पायमजस्रमुत्पलदृशां वक्त्रारविन्दसावम् ।
नाभीकण्ठनितम्बबिम्बनखरव्यापारपारङ्गमैः षष्ठ्यां चन्द्रकलाकलापनिपुणैर्देया नखाः सर्वतः

1.21

ग्रीवायां परिरभ्य गाढमसकृन्नाभिं नखैरालिखन् दन्तौष्ठेन निपीडयन्कुचतटीं कण्ठे मनाक् ताडयेत् ।
सानन्दं स्मरमन्दिरे करिकरक्रीडायितं कुर्वता नेतव्या तरुणी स्वकीयवशतां चण्डीतिथौ चित्रिणी

1.22

आलिङ्ग्य प्रसभं कपोलनयनश्रोणीश्रुतीश्चुम्बयन् स्थानेष्वेषु नखप्रदानकुशलो दत्त्वा नखान्निर्दयम् ।
संदश्याधरपल्लवं क्रमवशादाकृष्य केशान् वशे चित्रां संविदधीत सीत्कृतवतीं भानोस्तिथौ नायकः

1.23

शङ्खिन्याश्चन्द्रकलाप्रदीपनविधिः ।
कक्षामुल्लसितैर्विलिख्य करजैरालिङ्ग्य दोर्भ्यां मुहुर् गाढं चोरजिसौ निपीड्य सुतरां विष्णोस्तिथौ चन्द्रवित् ।
आचुम्बेच्च कपोलकण्ठगलकं मृद्गन्नुरोजद्वयं कन्दर्पस्य तिथौ नखक्षतिवशाद्द्राक् शङ्खिनीं द्रावयेत्

1.24

व्यादष्टौष्ठपुटः कपोलनयनश्रोत्रं नखैरालिखन् सान्द्रानन्दनिगूढकण्ठवलयां भानोस्तिथौ भामिनीम्

1.25

आघातं नखरैश्च नाभिचरणग्रीवाकुचोरःस्थले कृत्वालिख्य च भूतनाथदिवसे कुर्यात्सुधीर्विह्वलाम्

1.26

हस्तिन्याश्चन्द्रकलाप्रबोधनविधिः ।
आकण्ठं परिरभ्य दोर्लतिकया निष्पीय वक्त्राम्बुजं कक्षान्तःस्तनमण्डलोदरतटीं चञ्चन्नखैरामृशन् ।
क्षोणीभृत्तनयातिथावथ मुहुः कामालयं संस्पृशन् सन्दश्याधरपल्लवं ग्रहतिथौ कुर्याद्द्रुतां हस्तिनीम्

1.27

सम्पूर्णेन्दुतिथौ परिक्षयदिने तस्यैव तुल्या तिथिस् तस्यामेव वशीकृता शशिकलासम्बोधनैः कामिनी ।
कामागारचुचूलिकासु करजैर्दन्तैश्च दन्तच्छदैर् आश्लेषैः परिचुम्बनैश्च विविधैरित्याह नन्दीश्वरः

1.28

पद्मिन्यादीनां रतिकालनिरूपणम् ।
यामिन्याः कथितश्चतुर्थचरणः कालो नलिन्या रते प्रारम्भप्रहरे प्रयाति सुखतां चित्रप्रिया चित्रिणी ।
शङ्खिन्याः समुदीरितः कविवरैर्यामस्तृतीयो रतौ मातङ्गी द्रवतामुपैति नितरां नक्तंदिनस्यार्धयोः

1.29

सुखयति न पुमांसं पद्मिनी क्वापि रात्रौ निधुवनमिति तस्यां नैव किञ्चित्प्रयोज्यम् ।
शिशुरपि यदि कान्तां वासरे तामुपेयाद् विकसति रवियोगात्सा हठात्पद्मिनीव

1.30

नारीणां सत्त्वसमुद्देशः ।
त्रिवलिवलितमध्या कम्बुकण्ठी विदग्धा कमलसुरभिदेहा केतकीगर्भभव्या ।
शुचिचरितपवित्रा शीलसन्तोषयुक्ता सुललितपिकवाणी स्यादियं देवसत्त्वा

1.31

बहुलचपलदृष्टिर्नृत्यगीतादिदक्षा मधुरबहलसुगन्धा पुष्पमालानुरक्ता ।
शिशिरसुरभिमासक्रीडनप्रेमपात्री भवति रुचिरमूर्तिः सैव गन्धर्वसत्त्वा

1.32

गुरुकुचयुगभारा गौरदेहा नताङ्गी तरुणहरिणनेत्रा कोपना वीतलज्जा ।
विविधमधुरवाक्या मत्स्यमांसानुरक्ता मुनिभिरियमनर्घा यक्षसत्त्वा प्रदिष्टा

1.33

गिरिविहरणविज्ञा रात्रिसञ्चारवीरा मलिनपिशुनचित्ता कुत्सिताहारचेष्टा ।
विकृतवदनचन्द्रा कृष्णवर्णा ऽतिखर्वा मलिनवसनरक्ता कीर्तिता प्रेतसत्त्वा

मूल पाठ: Pañcasāyaka · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc