पञ्चक्रम · अध्याय 2
॥ वज्रजापक्रमः समाप्तः ॥
कृतिरियं श्रीनागार्जुनपादानामिति ।
ग्रन्थप्रमाणमस्य षदधिकसप्ततिः ॥
प्रथमः क्रमः ॥
[2]
अनुत्तरसन्धिरित्यपरनामा सर्वशुद्धिविशुद्धिक्रमः द्वितीयः
नमः श्रीवज्रसत्त्वाय
नमस्ते ऽस्तु नमस्ते ऽस्तु नमस्ते ऽस्तु नमो नमः ।
एवं स्तुते नमस्ते ऽस्तु कः स्तोता कश्च संस्तुतः
यथा जलं जले न्यस्तं घृतं चैव यथा घृते ।
स्वकीयं च स्वयं पश्येज् ज्ञानं यत्रेह वन्दना
किन्तु सर्वज्ञगतिभिर्विना तन्नोपलभ्यते ।
तमःपटलसञ्छन्नं प्रसादाद् द्वीपमाप्नुयात्
शून्यं च अतिशून्यं च महाशुन्यं तृतीयकम् ।
चतुर्थं सर्वशून्यं च फलहेतुप्रभेदतः
प्रज्ञोपायसमायोगान्निष्पन्नमुपलब्धकम् ।
उपलब्धाच्च निष्पन्नात् सर्वशून्यं प्रभास्वरम्
हेतुक्रमविशुद्धं तु विज्ञानत्रययोगतः ।
शून्यत्रयसमायोगाल्लभ्यते ऽनुत्तरं पदम्
आलोकश्शून्यं प्रज्ञा च चित्तं च परतन्त्रकम् ।
तस्येदानीं प्रवक्ष्यामि प्रकृतिस्फरणं स्फुटम्
विरागो मध्यमश्चैव अधिमात्रस्तथैव च ।
मनोगतागतं चैव शोकादितृतीयं तथा
सौम्यं विकम्पो भीतश्च मध्यभीतो ऽतिभीतकः ।
तृष्णा मध्यतृष्णा चातितृओस्णोओपादानकं तथा
निःशुभं क्षुत्तृषा चैव वेदना समवेदना ।
अतिवेदना क्षणश्चैव वेत्तिविद्धारणापदम्
प्रत्यवेक्षणं लज्जा च कारुण्यं स्नेहतस्त्रयम् ।
चकितं संशयश्चैव मात्सर्यं चेति कीर्तिताः
त्रयस्त्रिंशत् प्रकृतयः स्वसंवेद्याः शरीरिणाम् ।
संवृतिस्फुटरुपेण निशासंज्ञा प्रदर्शिताः
स्त्रीसंज्ञा तथा प्रोक्ता मन्दाकारा तथैव च ।
वामसंज्ञा पुनश्चैव चन्द्रमण्डलपङ्कजम्
दृढीकरणहेतुत्वात् सबिन्दुः प्रथमः स्वरः ।
निशाकरांशुसङ्काश आलोकज्ञानसम्भवः
आलोकाभासमित्युत्कम् अतिशून्यमुपायकम् ।
परिकल्पितं तथा प्रोक्तं प्रोक्तं चैतसिकं तथा
रागो रक्तं तथा तुष्टं मध्यतुष्टातितुष्टकम् ।
हर्षणं चैव प्रामोद्यं विस्मयो हसितं तथा
ह्लादनालिङ्गनं चैव तथा चुम्बनचूषणम् ।
धैर्यं वीर्यं च मानश्च कर्तृहर्तृबलानि च
उत्साहः साहसं चैव तथा चोत्तमसाहसम् ।
मध्यमं साहसं राद्रं विलासो वैरमेव च
शुभं च वाक् स्फुटा सत्यमसत्यं निश्चयस्तथा ।
निरुपादानदातृत्वे चोदनं शूरता तथा ।
अलज्जा धूर्तदुष्टश्च हठः कुटिल एव च ।
चत्वारिंशत् प्रकृतयः क्षणिकाश्चातिशून्यज्जाः
दिवापुरुषसंज्ञा च खराकारश्च दक्षिणः ।
सूर्यमण्डलसंज्ञा च वज्रसंज्ञा तथैव च
कला सैव तु विज्ञेया बिन्दुद्वयविभूषिता ।
दिवाकरांशुइसङ्काशा आलोकाभासयोगजा
आलोकस्योपलब्धिश्च उपलब्धं तथैव च ।
परिनिष्पन्नकं चैव अविद्या चैव नामतः
महाशून्यपदस्यैते पर्यायाः कथिता जिनैः ।
मध्यरागक्षणश्चैव विस्मृतिर्भ्रान्तिरेव च
तूष्णींभावश्च खेदश्च आलस्यं दन्धता तथा ।
अविद्यायाः क्षणाः सप्त विज्ञेयाः सुक्ष्मयोगिभिः
न बीजं विन्दुसंयुक्तं न वायुर्द्वारनिर्गतः ।
यदालोकोपलब्धं तु तत् परिनिष्पन्नलक्षणम्
एताः प्रकृतयः सूक्ष्माः शतं षष्ट्युत्तरं दिवा ।
रात्रौ चापि प्रवर्तन्ते वायुवाहनहेतुना
क्षणे लवे मुहूर्त्ते च निमेषे मात्रके तथा ।
क्षण इत्यच्छटावस्था लवः सर्षपवर्तनम्
आश्वासस्तु मुहूर्त्तं स्यान्निमेषो ऽक्षिनिमेषणम् ।
मात्रा तु हस्ततालं स्यात् क्षणादीनां तु लक्षणम्
संवित्तिमात्रकं ज्ञानमाकाशवदलक्षणम् ।
किन्तु तस्य प्रभेदो ऽस्ति सन्ध्यारात्रिदिवात्मना
आलोकालोकाभासौ च तथालोकोपलब्धकम् ।
चित्तं त्रिविधमित्युक्तम् आधारस्तस्य कथ्यते
वायुना सूक्ष्मरूपेण ज्ञानं संमिश्रतां गतम् ।
निःसृत्येन्द्रियमार्गेम्यो विषयानवलम्बते
आभासेन यदा युक्तो वायुर्वाहनतां गतः ।
तदा तत्प्रकृतीः सर्वा अस्तव्यस्ताः प्रवर्तयेत्
यत्र यत्र स्थितो वायुस्तां तां प्रकृतिमुद्वहेत् ।
यावत् समीरणोत्पादो नाभासो निश्चलो भवेत्
आभासद्वयहेतुः स्यादात्मभावविकल्पना ।
उभयांशिकमेव स्याद् यदालोकोपलब्धकम्
सर्वासामेव मायानां स्त्रीमायैव विशिष्यते ।
ज्ञानत्रयप्रभेदो ऽयं स्फुटमत्रैव लक्ष्यते
रागश्चैव विरागश्च द्वरोरन्तरिति त्रयम् ।
द्वीन्द्रियस्य समापत्त्या वज्रपद्मसमागमात्
ज्ञानद्वयसमायोगः समापत्तिः प्रकीर्तीता ।
ज्ञानद्वयसमापत्त्या यथोक्तकरणेन तु
यज्ज्ञानं प्राप्यते यत्नात् तदालोकोपलब्धकम् ।
यस्य वज्राब्जसंयोगः संवृत्या तु न विद्यते
सिध्यते योगसामर्थ्यात् सकृदप्यनुभूतवान् ।
यथा प्रभेदं विज्ञाय ज्ञानवृत्तिं स्वभावतः
लक्षयेत् सततं योगी तामेव प्रकृतिं पुनः ।
पयोधरा यथा नैके नानासंस्थानवर्णकाः
उद्भूता गगनाभोगाल्लयं गच्छन्ति तत्र वै ।
एवं प्रकृतयः सर्वा आभासत्रयहेतुकाः
निर्विश्य विषयान् कृत्स्नान् प्रविशन्ति प्रभास्वरम् ।
एषां स्वभावाबिज्ञानदज्ञानपटलावृताः
कृत्वा शुभाशुभं कर्म भ्रमन्ति गतिपञ्चके ।
आनन्तर्यादिकं कृत्वा नरकेषु विपच्यते
शुभं दानादिकं कृत्वा स्वर्गादिषु महीयते ।
अनन्तजन्मसाहस्रं प्राप्य चैवं पुनः पुनः
पूर्वकर्मविपाको ऽयमिति शोचति मोहतः ।
प्रकृत्याभासयोगेन येन क्लिश्यन्ति जन्तवः
ज्ञात्वा तमेव मुच्यन्ते ज्ञानिनो भवपञ्जरात् ।
प्रज्ञास्वभाव एवायं चन्द्रमण्डलकल्पना
चित्तमेव स्वयं पश्येत् स्वमेव शशिबिम्बवत् ।
अथ चन्द्रं समालम्ब्य वज्रचिन्हं प्रकल्पयेत्
उपायसूचकं ह्येतद् वज्राद्युत्पत्तियोगिनाम् ।
चन्द्रवज्रादिसंयोगश्चित्तचैतससङ्गमः
प्रज्ञोपायसमायोगाज्जायते देवताकृतिः ।
चतुर्मुद्राभिरामुद्र्य देवतागर्वमुद्वहन्
विचरेत् तु सदा मन्त्री उत्पत्तिक्रमयोगवान् ।
यथोक्तं श्रीसमाजादौ तत्र तत्र सुविस्तरम्
यावत् स्याद् भावनायोगस्तावत् स्यादादिकर्मिकः ।
परिनिष्पन्नयोगस्य सूचन क्रियते ऽधुना
शून्यत्रयविशुद्धिर्या प्रभास्वरमिहोच्यते ।
सर्वशून्यपदं तच्च ज्ञानत्रयविशुद्धितः
ज्ञानशुद्धिपदं तत्त्वं सर्वज्ञत्वमनुत्तरम् ।
निर्विकारं निराभासं निर्द्वन्द्वं परमं शिवम्
अस्तीति न च नास्तीति न च वाक्यगोचरम् ।
अतः प्रभास्वराच्चूद्धाज्ज्ञानत्रयसमुद्भवः
द्वात्रिंशल्लक्षणधरो ह्यशीतिव्यञ्चनान्वितः ।
सर्वाकारवरोपेतः सर्वज्ञो जायते ततः
तथा चोक्तं महायानसूत्रे ललितविस्तरे ।
अभिसम्बोधिकामो ऽयं शाक्यसिंहस्तथागतः
महाशून्येन बुद्धत्वं प्राप्स्यामीत्यभिमानतः ।
नैरञ्चनानदीतीरे निस्पाद्यास्फानकं गतः
तिलबिम्बीव सम्पूर्णाः खमध्यस्था जिनास्तदा ।
एकस्वरेण तं प्राहुरच्छटेन जिनौरसम्
अविशुद्धमिदं ध्यानं न चैतदिष्टकावहम् ।
प्रभास्वरं आतु आलम्ब्यमाकाशतलवत् परम्
प्रभास्वरपदे प्राप्ते स्वेच्छारूपस्तु जायसे ।
सवैश्वर्यं तथा प्राप्य वज्रकाये प्रमोदसे
एवं श्रुत्वा तु तं श्ब्दं विसर्ज्यास्फानकं ततः ।
निशार्धसमये तत्त्वमालम्ब्यैव जिनौरसः
ऋजुकेनैव कायेन वाचाय ऋजुरेव च ।
साशनो नाशनो नैव न मौनी नाप्यमौनवान्
नोन्मीलितसुनेत्रस्तु न च मीलितलोचनः ।
स्वच्छं व्यक्तं महाज्ञानं सर्वशून्यं महाद्भुतम्
अथ पश्यति तद्वयक्तं गुरुपादप्रसादतः ।
अनागतमतीतं च वर्तमानं भवत्रयम्
तत्क्षणान्निखिलं पश्येत् प्रभास्वरविशुद्धधृक् ।
जलचन्द्रमरीच्यादिमायागुणविभूषितः
अरुणोद्गमकाले तु वज्रोपमसमाधिना ।
निषद्य बोधिमूले तु सो ऽकरोन्मारभञ्चनम्
सम्प्राप्य शाक्यनाथेन तत्त्वज्ञानमनुत्तरम् ।
जगत्त्रयहितार्थाय तदेवेह प्रदर्शितम्
तत्त्वज्ञानमिति प्रोक्तमभिसम्बोधिदर्शनम् ।
पञ्चानन्तर्यकर्मा च मन्दपुण्यो ऽपि यो नरः
गुरुप्रसादादाप्नोति चिन्तामणिरिवापरम् ।
यथेष्टं कुरुते चर्यां संबुद्धो ऽयमनागतः
न रागो न विरागश्च मध्यमा नोपलभ्यते ।
न शून्यं नापि चाशून्यं मध्यमा नोपलभ्यते
सर्वबुद्धसमायोग इदमेव प्रदर्शितम् ।
त्रिज्ञानाद् व्यतिरिक्तं यत् तत्त्वं सन्ध्याय भाषया
अभावेत्यादिगाथाभिः पटले बोधिचित्तके ।
श्रीसमाजे ऽपि तत् प्रोक्तमभिसम्बोधिलक्षणम्
रागादीनां विशुद्धिर्या परमाद्ये प्रदर्शिता ।
सर्वशून्यं समुद्दिश्य सापि प्रोक्ता तथागतैः
नानासूत्रेषु तन्त्रेषु यत् तत्त्वमुपदर्शितम् ।
सर्वशून्यपदं ह्येतन्नान्यत् तत्राभिधीयते
चतुरशीतिसाहस्रे धर्मस्कन्धे महामुनेः ।
सारात् सारतरं प्रोक्तम् अभिसम्बोधिलक्षणम्
जटी नग्नश्च मुण्डी वा शिखिनिःसङ्गवृत्तयः ।
तैस्तैश्च विविधैर्लिङ्गैरभिसम्बोधिकामिनः
तेषां तत्त्वविहीनानां व्रतचर्यादिकः क्रमः ।
तत्त्वज्ञानविहीनत्वात् तेन मुक्तिर्न लभ्यते
आदिकर्मिकयोगेन चाष्टमीं भूमिमाप्नुयात् ।
आलोकत्रयदर्शी च दशभूम्यां प्रतिष्ठितः
सम्प्राप्य ह्यभिसम्बोधिं शुद्धावासमुपागतः ।
बुद्धक्षेत्रेस्ववैवर्ती सर्वज्ञ इह जन्मनि
धर्मोदयाभिसम्बोधिः क्रीडारागादिविस्तरैः ।
धर्मधात्वाभिसमबोधिर्यथालाभविचेष्टितैः
अनुतराभिसम्बोधिरभिसम्बोधियोगतः ।
प्रपञ्चाकारादिचर्याभिरभ्यस्यन्तीह योगिनः
आः किमभ्यासयोगेन आदिशुद्धिः स्वभाविका ।
प्रकृत्यैव हि सा सिद्धा तथता न विकल्पजा
य एवं कल्पयन्तीह ज्ञानक्रममपास्य वै ।
तत्प्रभेदमजानानाः पुनः शैक्षा भवन्ति ते
प्रकृत्याभासभेदज्ञा चतुर्थं तत्त्वमाश्रिताः ।
त्रिधा नाभ्यस्यते यस्तु न शीघ्रमाप्नुयात् फलम्
यथाग्निर्दारुगर्भस्थो नोत्तिष्ठेन्मथनाद् विना ।
तथाभ्यासाद् बिना बोधिर्जायते नेह जन्मनि
यः शाठ्यबुद्धिरलसो गुरुनिन्दकश्च प्राप्ताभिषेक इति गर्वितमानसः स्यात् ।
सर्वज्ञता न सुलभेति विहीनचित्तो दोषान् स पश्यति गुरोर्न गुणान् वराकः
सूश्रूषया विरहितो लघु तत्त्वमिच्छेन् नेति प्रश्स्तवचनं चलयेत् सरोषः ।
दृष्ट्वा सभासु गुरुमस्य पराङ्मुखस्तु कुर्यात् प्रणाममथ तस्य रहोगतस्य
एवं च दौरात्म्यगतं कुशिष्यम् स्वपुत्रमप्यौरसमार्यगर्ह्यम् ।
वैश्यं तथा पार्थिवमग्रबोधिं कुर्यात् समीपे न हि जातु धीरः
शुभगुणसुसमेतो ज्ञानवान् वीर्ययुक्तो गुरुजनमथ भक्त्या वीक्षते बुद्धतुल्यम् ।
अधिगतजिनधर्मः शासनेषु प्रसन्नः स इह भवति पात्रं तस्य कुर्यात् प्रसादम्
श्रुतबहुतरतन्त्रो ऽउयागमेषु प्रवीणो गुरुजनपरिचर्याहान्यलब्धोपदेशः ।
स्वहितमपि स कर्तुं न प्रभुः शास्त्रचञ्चुर्भवति तदपि शास्त्रं केवलं खेदहेतुः
अथ भवति सभाग्यः प्राप्ततत्त्वोपदेशो जडमतिरसमर्थो मीलने ऽर्थस्य यस्तु ।
परहितकृतबुद्धिर्देशनायां प्रवृत्तो वचनगुणविहीनः सो ऽप्यवज्ञामुपैति
श्रुतबहुतरतन्त्रो ज्ञानवान् षट्पदज्ञः स्मृतिमतिधृतिमेधावीर्यसम्पत्समेतः ।
गुरुचणसपर्याप्राप्ततत्त्वोपदेशः प्रभवति स हि वक्तुं तन्त्रराजोपदेशम्
श्रुतबहुतरतन्त्रेणायवज्रिप्रसादात् स्फुटविरचितवाचा बोधिमार्गं विभज्य ।
कुशलमुपचित्तं यच्छाक्यमित्रेण तेन प्रकटपटुविपाकाद् बोधिभाजो भवन्तु ॥ इति
मूल पाठ: Pañcakrama · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0