पञ्चक्रम · अध्याय 1
पञ्चक्रमः
[1]
वज्रजापक्रमः प्रथमः
ओं नमो बुद्धाय
सर्वबुद्धात्मकं नाथं नत्वा श्रीमन्महासुखम् ।
वज्रजापक्रमं वक्ष्ये योगतन्त्रानुसारतः
उत्पत्तिक्रमसंस्थानां निष्पन्नक्रमकाङ्क्षिणाम् ।
उपायश्चैष संबुद्धैः सोपानमिव निर्मितः
प्राणभूतश्च सत्त्वानां वाय्वाख्यः सर्वकर्मकृत् ।
विज्ञानवाहनश्चैष पञ्चात्मा दशधा पुनः
वायुतत्त्वानुपूर्वेण मन्त्रतत्त्वं समाविशेत् ।
मन्त्रनिध्यप्तिमागम्य वज्रजापः सुशिक्ष्यते
वज्रजापस्थितो मन्त्री चित्तनिध्यप्तिमाप्नुयात् ।
मयोपमसमाधिस्थो भूतकोट्यां समाविशेत्
भूतकोटेः समुत्तिष्ठन्नद्वयज्ञानमाप्नुयात् ।
युगनद्वसमाधिस्थो न किञ्चिच्छक्षते पुनः
अयं निष्पन्नयोगाख्यो महावज्रधरश्च सः ।
सर्वाकारवरोपेतः सर्वज्ञो जायते ततः
अनागतमतीतं च वर्तमानं भवत्रयम् ।
तत्क्षणात् निखिलं पश्येत् प्रभास्वरविशुद्धितः
एतत्तत्त्वं स्थितं तन्त्रे श्रीसमाजे सुमुद्रितम् ।
व्याख्यातन्त्रानुसारेण बोद्धव्यं गुरुवक्त्रतः
तत्र प्रथमतरं वायुतत्त्वोद्देशपदं मूलसूत्रादेवावतार्यते-
नासाग्रे सर्षपं चिन्तेत् सर्षपे सचराचरम् ।
भावयेज्ज्ञानपदं रम्यं रहस्यं ज्ञानकल्पितम्
पञ्चवर्णं महारत्नं सर्षपस्थूलमात्रकम् ।
नासिकाग्रे प्रयत्नेन भावयेद् योगतः सदा
इति सन्धाभाषेयमस्य वज्रपदस्य निर्देशमाह चतुर्देवीव्याख्यातन्त्रे-
तद् देवि सम्प्रवक्ष्यामि सारात् सारतरं परम् ।
रहस्यं सर्वबुद्धानां यत् तत् सर्वात्मनि स्थितम्
पश्चज्ञानमयं तत्त्वं सर्षपस्थूलमात्रकम् ।
तस्य मध्ये स्थितो देवो ह्यव्यक्तो व्यक्तरूपवान् ॥ इति
समाजोत्तरे ऽप्यमुमर्थं द्योतयन्नाहः ।
पञ्चज्ञानमयं श्वासं पञ्चभूतस्वभावकम् ।
निश्चार्य पद्मनासाग्रे पिण्डरूपेण कल्पयेत्
पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम् ।
स्वमन्त्रं हृदये ध्यात्वा चित्तं बिन्दुगतं न्यसेत्
इत्यस्यापि प्रतिनिर्देशमाह वज्रमालानाम्नि व्याख्यातन्त्रे-
नासाग्रे सर्षपं नाम प्राणायामस्य कल्पना ।
प्राणायामस्थिताः पञ्च रश्मयो बुद्धभावतः
ऊर्ध्वं घ्राणाद् विनिष्क्रान्तो वामदक्षिणद्वन्द्वतः ।
स्तब्धश्चेति चतुर्धास्माद् वेला आध्यात्मिका स्मृता
कण्ठहृन्नाभिगुह्याब्जे गत्यागती विनिर्दिशेत् ।
विहरेद् अर्धयामिकां वेलां परिपाट्या यथाक्रमम्
दक्षिणाद् विनिर्गतो रश्मिर्हुतभुङ्मण्डलं च तत् ।
रक्तवर्णमिदं व्यक्तं पद्मनाथो ऽत्र देवता
वामाद् विनिर्गतो रश्मिर्वायुमण्डलसंज्ञितः ।
हरितश्यामसङ्काशः कर्मनाथो ऽत्र देवता
द्वाभ्यां विनिर्गतो रश्मिः पीतवर्णो महाद्युतिः ।
माहेन्द्रमण्डलं चैतद् रत्ननाथो ऽत्र देवता
स्तब्धो मन्द्रप्रचारस्तु सितकुन्देन्दुसन्निभः ।
मण्डलं वारुणं चैतद् वज्रनाथो ऽत्र देवता
सर्वदेहानुगो वायुः सर्वचेष्टाप्रवर्तकः ।
वैरोचनस्वभावो ऽसौ मृतकायाद् विनिश्चरेत्
वायुतत्त्वमिदं व्यक्तं पञ्चज्ञानस्वभावकम् ।
तार्किका न प्रजानन्ति अगम्यं बालयोगिनाम्
इत्येवं वायुत्तत्वं प्रतिपाद्येदानीं मन्त्रतत्त्वस्योद्देशपदं मूलसूत्रादवतार्यते-
सर्वतथागतकायवाक्चित्तरहस्यं सर्वतन्त्रहृदयसञ्चोदनं नाम परमगुह्यं स्वकायवाक्चित्तवज्रेभ्यो वाक्पथनिरुक्त्या मन्त्रसमुच्चयमुदाजहार ओं आः हूं ।
अर्थानुमजापेन निःस्वभावेन चारुणा ।
विचारणा त्र्यध्वबुद्धेभ्यो वज्रजापः स उच्यते
भिक्षाशिना न जप्तव्यं न च भैक्षरतो भवेत् ।
जपेन्मन्त्रमभिन्नाङ्गं सर्वकामोपभोगकृत्
इत्युद्देशपदम् अस्य निर्देशमाह सन्ध्याव्याकरणव्याख्यातन्त्रे तदवतार्यते-
प्रत्युवाच ततः श्रीमान् महावैरोचनं विभुम् ।
विश्वरूपमिदं चित्तं सर्वसत्त्वोपपत्तितः
जातं सन् निःस्वभावो ऽपि भावाख्यं तु प्रतीत्यतः ।
कृत्वा चानुभवं सम्यग् बोधिचित्तं खतुल्यकम्
जगदर्थं विधातुं च तद्देशयोत्तमे जने ।
साधनोपायितामात्रं ज्ञात्वा तन्त्रे विपञ्चितम्
आचार्या वयमित्येवं वदन्त्यागामिका विभो ।
यद् वाक्यं ममेत्येवमुक्त्वा क्षिपन्ति बालिशाः ।
सन्ध्याय बोधिचित्तं ते न विदन्ति यथार्थतः ॥ इति
यथेदं भगवान् स्वामी महावैरोचनो विभुः ।
त्रिष्कृत्वा साधुवचनं वज्रपाणिं वदेदिदम्
कथयमामि प्रभेदेन निर्विकल्पार्थतत्त्वतः ।
प्रव्याहारोपलम्भाख्यं साङ्केतं पारमार्थिकम्
प्रव्याहारो हि सामान्यं बुद्धरूपोपलम्भकम् ।
साङ्केतं मन्त्रतत्त्वाख्यं तथता पारमार्थिकम्
एकादिर्नवमध्ये तु दशभिर्यो न बध्यते ।
तमबद्धं विजानीयात् स वेत्ति परसम्पदम्
स्वरव्यञ्चनवर्णाश्च नवसंख्यानुवर्तिनः ।
ऽ अबद्धान्योन्यसंयोओगाद् यो वेत्ति स जगद्गुरुः
भूतान्तेन समायुक्तं कलादिषोडशे स्थितम् ।
पञ्चपञ्चकसंयुक्तं चतुस्त्रयनियोजितम्
सानुस्वारं सदीर्घं न गुणसंयोलोपवत् ।
ह्रस्वं समस्तवाक्यं स्यान्न चानेकं न चैककम्
ये वर्णाः पृष्ठतः प्रोक्ता अभिमुखाश्च ये पुनः ।
स्त्री-पुं-नपुंसकास्ते च धात्वादिपरिकल्पिताः
अध-ऊर्ध्वसमायुक्तं ज्ञात्वा बुद्ध्या नियोजयेत् ।
प्रव्याहारमिदं मन्त्रं निःस्वभावस्वभावजम्
ततः परिणतं रूपं यद्देवतोपलम्भिकम् ।
साङ्केतिकं त्रितत्त्वस्थं प्रकृतिजापलपक्षणम्
अकारोद्देशकं ज्ञानं बुद्धस्य हृदयं भवेत् ।
ओंकारः संसृजेत् सत्त्वान् बुद्धरूपाग्रकल्पितान्
हूंकारःसंहरेत् सत्त्वान् आःकारः स्थापको भवेत् ।
प्रवेशश्व स्थितिश्चैव व्युत्थानं च क्रमेण च
जपेन् मन्त्रमभिन्नाङ्गं प्रज्ञोपायपदे स्थितः ।
पाण्डरादिजपः प्रक्तः पञ्चविंशच्छतद्वयम्
चतुर्भिर्गुणितं सम्यक् चतुर्योगशतं नव ।
नवशतं तु यद् दृष्टं चतुर्विंशत्परिक्रमैः ।
प्रत्युत्पादाद् भवेत् तत्र द्व्ययुतं शतषोडशम्
इदमेवाध्यात्मिकवेलायां द्योतयन्नाह समाजोत्तरे-
विद्यानयविधानेन चतुःसन्ध्याप्रयोगतः ।
जपेन्मन्त्रमभिन्नाङ्गं लक्षमक्षरसंख्यया
बाह्यजापं त्यजेद् योगी भावनायान्तरायिकम् ।
मन्त्रार्थो भगवान् वज्री वज्रात्मात्र कथं जपेत्
हस्तिनं लभते सद्यो मृगयेद्धस्तिनः पदम् ।
मन्त्रमूर्तिः स्वयं साक्षात् किमन्यत्तु गवेषते
अपि च वज्रधृक् कश्चित् त्रिसंयोगान्वितो नरः ।
आवाहनविसर्जनं स्यात् तथा स्थापनमेव च
आवाहनं प्रवेशेन त्वरितेन विसर्जनम् ।
वाष्पेण स्थापनं तत् स्याद् विश्वस्तात् सिद्धिरुत्तमा
त्वरिते निबन्धके वाष्पे मन्त्रनियोजना कथिता ।
कर्णमूले तु शिष्यायाचार्येण सुप्रयत्नतः
अथ योगेश्वराणां तु दिव्योपायः प्रदर्शितः ।
गुह्याक्षरं प्रवक्ष्यामि योगसिद्धिफलप्रदम्
येन चिन्तितमात्रेण योगिनः स्युर्वरप्रदाः ।
आद्यक्षरप्रयोगेण उच्छवासं कुरुते सदा
अष्टान्तेन समायुक्तमुकारेण सबिन्दुकम् ।
निश्वासं कुरुते योगी रुचिजाप्तमिहोच्यते
अयुतद्वयं सहस्रं च षट् शतानि तथैव च ।
अहोरात्रेण योगीन्द्रो जपसंख्यां करोति च
तदेवं गुह्यसन्ध्यायां सूक्ष्मयोगः प्रकाशितः ।
ध्यानाध्ययनवीतं तु तथापि जाप उच्यते
अनेन वज्रजापेन सेवां कृत्वा यथाविधि ।
साधयेत् सर्वकार्याणि मायोपमसमाधिना
अत्राह अद्वयसमतामहायोगतन्त्रे-
जपित्वा मन्त्रमतुलं साधयेत् साधनात्मकः ।
सिध्यते तस्य त्रैलोक्यं मासैकेन न संशयः
षड् लक्षाणि जपित्वा तु मन्त्रं ज्ञानसमुद्भवम् ।
वज्रसत्त्वं नमस्कृत्य पूर्णमास्यां स सिध्यति
न तस्य व्रतमाख्यातं नाक्षसूत्रं न मन्त्रकम् ।
धारणा होमकर्माणि वर्ज्यन्ते च परापरम्
यकारार्थेन यत् किञ्चित् सिद्धिमिच्छता ।
रेफादित्रितयेनैव जतत्कार्यं प्रवर्तते
अग्निवायव्यमाहेन्द्रवारुणे प्रतिमण्डले ।
अर्धयामिकवेलायां द्वौ द्वौ कर्मणि तिष्ठतः
पूजाप्रायो भवेत् पूज्यो जापप्रायो विशुध्यति ।
अग्निहोत्रपरो भूतिं मोक्षं ध्यानपरो लभेत्
ज्ञात्वा इत्थं ततो मन्त्री जगद्बालवदाचरेत् ।
ततः सिध्यन्ति मन्त्राश्च निर्विकल्पैकधर्मतः
मन्त्रतत्त्वमिदं व्यक्तं वाग्वज्रस्य प्रसाधनम् ।
ज्ञानत्रयप्रभेदेन चित्तमात्रे नियोजयेद् ॥ इति ॥ प्क्_1. 64 ॥
गुरोरवज्ञासुशठो ऽप्रसन्नो मन्त्रोद्धतः पुस्तकदृष्टिगर्वः ।
अश्रद्दधानस्त्वभिषेकहीनो वार्ता क्रमस्यापि च तस्य नोक्ता
यः श्रद्दधानो गुरुभक्तिरक्तः शुश्रूषणायां च सदाभियुक्तः ।
ग्राह्यः श्रुतिं नैव धनं निरीक्ष्यं गुरुप्रधानो ऽय गुरुप्रसादः
गिरीन्द्रमूर्ध्नः प्रपतेत् तु कश्चित् नेच्छेच्च्युतिं तु च्यवते तथापि ।
गुरुप्रसादाप्तहितोपदेश इच्छेन्न मोक्तं स तथापि मुक्तंः
मूल पाठ: Pañcakrama · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0