पैप्पलाद-संहिता · अध्याय 9.25
सहस्राक्षं शतधारम्
ऋषिभिः पवनं कृतम् ।
तेना सहस्रधारेण
पवमानः पुनातु मा ॥
येन पूतम् अन्तरिक्षं
यस्मिन् वायुर् अधि श्रितः ।
(…) ॥
येन पूते द्यावापृथिवी
आपः पूता अथो स्वः ।
(…) ॥
येन पूते अहोरात्रे
दिशः पूता उत येन प्रदेशाः ।
(…) ॥
येन पूतौ सूर्याचन्द्रमसौ
नक्षत्राणि भूतकृतः सह येन पूताः ।
(…) ॥
येन पूता वेदिर् अग्निः
परिधयः सह येन पूताः ।
(…) ॥
येन पूतं बर्हिर्
आज्यम् अथो हविः ।
(…) ॥
येन पूतो यज्ञो
वषट्कार उताहुतिः ।
(…) ॥
येन पूतौ व्रीहियवौ
याभ्यां यज्ञो अधिनिर्मितः ।
(…) ॥
येन पूता अश्वा गावो
अथो पूता अजावयः ।
(…) ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0