भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 9.24

9.24.1

यद् अन्नम् आशिमा वयम्
अनन्नम् अन्नकाम्या-
-उदरस्याभिशाच्या ।
(…) ॥

9.24.2

यद् विद्वांसो यद् अविद्वांसो
अनृतं किं चोदिम ।
अयं मा तस्माद् ओदनः
पवित्रः पात्व् अंहसः ॥

9.24.3

यद् देवस्य सवितुः पवित्रं
सहस्रधारं विततं हिरण्यम् ।
येनेन्द्रम् अपुननमार्तमर्त्यास्
तेनायं मां सर्वपशुं पुनातु ॥

9.24.4

येनापुनात् सविता रेवतीर् अपो
येनापुनीत वरुणः सवाय ।
येनेमा विश्वा भुवनानि पूतास्
तेनायं मां सर्वपशुं पुनातु ॥

9.24.5

अति क्रामामि दुरितं यद् एनो
जहामि रिप्रं परमे सधस्थे ।
येन यन्ति सुकृतो नापि दुष्कृतस्
तम् आ रुहेम सुकृताम् उलोकम् ॥

9.24.6

मा यक्ष्मम् इह हासिष्ट
मा रिफन्तो वि गातन ।
अमैव पुण्यम् अस्तु नो
अत्तॄन् अन्व् एति किल्बिषम् ॥

9.24.7

इमं पचाम्य् ओदनं
पवित्रं पवनाय कम् ।
स मा मुञ्चतु दुष्कृताद्
विश्वस्माच् चैनसस् परि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc