पैप्पलाद-संहिता · अध्याय 9.26
येन पूता ऋचः सामानि
यजुर् ब्रह्मणा सह येन पूतम् ।
(…) ॥
येन पूता अथर्वाण आथर्वणा
अङ्गिरसो देवताः सह येन पूताः ।
(…) ॥
येन पूता ऋतवो येनार्तवा
येभ्यः संवत्सरो अधिनिर्मितः ।
(…) ॥
येन पूता वनस्पतयो वानस्पत्या
ओषधयो वीरुधः सह येन पूताः ।
(…) ॥
येन पूता गन्धर्वाप्सरसाः
सर्पपुण्यजनाः सह येन पूताः ।
(…) ॥
येन पूता नद्यः सिन्धवः
समुद्रः सह येन पूतः ।
(…) ॥
येन पूताः पर्वता हिमवन्तो
वैश्वानरः परिभूः सह येन पूतः ।
(…) ॥
येन पूता विश्वे देवाः
परमेष्ठी प्रजापतिः ।
(…) ॥
येन पूत स्तनयित्नुर्
अपां वत्सः प्रजापतिः ।
(…) ॥
येन पूतः प्रजापतिर् लोकान्
विश्वं भूतं स्वर् आजभार ।
(…) ॥
येन पूतम् ऋतं सत्यं
तपो दीक्षा च पूयते ।
(…) ॥
येन पूतम् इदं सर्वं
यद् भूतं यच् च भाव्यम् ।
तेना सहस्रधारेण
पवमानः पुनातु मा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0