पैप्पलाद-संहिता · अध्याय 9.23
यत् क्रुद्धा मन्युतो वयं
ब्राह्मणस्य निजग्मिम
पदा वा गाम् उपारिम ।
(…) ॥
यद् ब्रह्मचर्ये यत् स्नातचर्ये
अनृतं किं चोदिम ।
(…) ॥
किलासेन दुश्चर्मणा
वण्डेन यत् सहाशिम-
-आधाराभिगतेन वा ।
(…) ॥
यत् क्षेत्रम् अभितिष्ठाथ-
-अश्वं वा यं निरेमिषे ।
(…) ॥
यद् अक्षेषु हिरण्ये
गोष्व् अश्वेषु यद् धने
अनृतं किं चोदिम ।
(…) ॥
सख्युर् जायां स्वां दासीं
सूतिकां लोहितावतीम्
अशुद्धां यद् उपेयिम ।
(…) ॥
परिवित्तेन परिविविदानेन-
-अभ्यवस्नातेन परिभक्षितेन
दिधिषूपत्या यत् सहाशिम ।
(…) ॥
यत् कुसीदं विभेजिम
द्विमेयं धनकाम्या ।
(…) ॥
यद् द्व्येकं यत् त्र्येकम्
उपैकम् इति यद् ददौ ।
(…) ॥
यत् त्वरमाणाः शबलम्
अपक्वं मांसम् आशिम ।
(…) ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0