भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 9.22

9.22.1

इमां मात्रां निर् वप ओदनस्य
तस्य पक्ता मुच्यतां किल्बिषेभ्यः ।
अभिद्रोहाद् एनसो दुष्कृताच् च
पुनातु मा पवनैः पवित्रः ॥

9.22.2

भद्रौ हस्तौ भद्रा जिह्वा
भद्रं भवतु मे वचः ।
मह्यं पवित्रम् ओदनं
ब्रह्मणा निर् वपामसि
हस्ताभ्यां निर् वपामसि ॥

9.22.3

यन् मयि गर्भे सति
माता चकार दुष्कृतम् ।
अयं मा तस्माद् ओदनः
पवित्रः पात्व् अंहसः ॥

9.22.4

यद् अर्वाचीनम् एकहायनाद्
अनृतं किं चोदिम ।
(…) ॥

9.22.5

यद् दुष्कृतं यच् छमलं
यद् एनश् चकृमा वयम् ।
(…) ॥

9.22.6

यन् मातरं यत् पितरं
यद् वा जामिं जिहिंसिम ।
(…) ॥

9.22.7

यन् मातृघ्ना यत् पितृघ्ना
भ्रूणघ्ना यत् सहासिम ।
(…) ॥

9.22.8

श्यावदता कुनखिना
स्तेनेन यत् सहासिम ।
(…) ॥

9.22.9

शिशुन्धानां पूंश्चलानां
तक्ष्णां यद् अन्नम् आशिम ।
(…) ॥

9.22.10

यद् अपाम् अपजह्रिम
निमज्य पपिमोदकम् ।
(…) ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc