भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 6.7

6.7.1

कश्यपश् च सुपर्णश् च
यन् मरीच्याम् अतिष्ठताम् ।
सुपर्णः पर्य् अवापश्यत्
समुद्रे भूमिम् आवृताम् ॥

6.7.2

यां सुपर्णः पर्यपश्यद्
अन्तर् महत्य् अर्णवे ।
तां सूकर त्वं मायया
त्रिः समुद्राद् उद् आभरः ॥

6.7.3

यं समुद्राद् उदभरो
भूमिं सूकर मायया ।
सैषा विषस्य दूषण्य्
अस्मै भवतु भेषजी ॥

6.7.4

अच्युता हिरण्येन
या सत्ये अधितिष्ठति ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥

6.7.5

यस्याः कुलायम् इत्य् एका ॥

6.7.6

यस्या भूम्या उपजीका
गृहं कृण्वत आत्मने ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥

6.7.7

यस् त्वा भूमे ऽन्वविन्दद्
यस् त्वा भूम उदाभरत् ।
तयोः सहस्रधामन्न्
अहं नामानि जग्रभ ॥

6.7.8

यानि त इन्द्रो अकृणोद्
भूमे नामानि वृत्रहा ।
तानि ते बभ्रोः सं विद्म
सेहैधि विषदूषणी ॥

6.7.9

यानि ते मरुतश् चक्रुर्
यानि सप्तर्षयो विदुः ।
विश्व आदित्या यां विदुः
सा भूमिर् विषदूषणी ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc