भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 6.6

6.6.1

मधुमन् मे निक्रमणं
मधुमन् मे परायणम् ।
वाचा मधुमद् उद्यासम्
अक्ष्यौ मे मधुसंदृशी ॥

6.6.2

माम् अनु प्रसारयन्
मम पत्तो निपेदिवान् ।
अथो मे पुनर् आयतो
अक्ष्यौ कामेन शुष्यताम् ॥

6.6.3

वशा मधुघ ते माता-
-उक्षा भ्रातर्षभः पिता ।
धेन्वा अधि प्रजातो ऽसि
राजा सन् मधुमत्तमः ॥

6.6.4

वृषाणं वृष्ण्यावन्तं
सोमपृष्ठं दिवि श्रितम् ।
इन्द्राण्य् अग्र आभरन्
मधुघं भगाय कम् ॥

6.6.5

पितुभोजनो मधुघः
शौष्कास्यो हृदयाय कम् ।
स मा मधुनानक्तु
यथाहं कामये तथा ॥

6.6.6

सिन्धुप्रजानो मधुघो
अश्व इव नीयते जनाँ अनु ।
स मा (…) ॥

6.6.7

मधुमती सिनीवाली
मधुना मा सम् उक्षतु ।
सा मा मधुनानक्तु
यथाहं कामये तथा ॥

6.6.8

यथा मधु मधुकृतो
न्यञ्जन्ति मधाव् अधि ।
एवा न्य् अनज्मि ते मनो
अध्य् अस्यां मामकी तनू ॥

6.6.9

यत् ते मनः परागतं
यद् बद्धम् इह वेह वा ।
तत् त आ वर्तयामसि
मयि बध्नामि ते मनः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc