भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 6.5

6.5.1

यथा द्यौश् च पृथिवी च
न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेर्
एवा मे ऽपान मा रिषः ॥

6.5.2

यथा वायुश् चान्तरिक्षं च (…) ॥

6.5.3

यथा सूर्यश् च चन्द्रमाश् च (…) ॥

6.5.4

यथाहश् च रात्री च (…) ॥

6.5.5

यथा धेनुश् चानड्वांश् च (…) ॥

6.5.6

यथा मित्रश् च वरुणश् च (…) ॥

6.5.7

यथा ब्रह्म च क्षत्रं च (…) ॥

6.5.8

यथेन्द्रश् चेन्द्रियं च (…) ॥

6.5.9

यथा वीरश् च वीर्यं च (…) ॥

6.5.10

यथा प्राणश् चापानश् च (…) ॥

6.5.11

यथा मृत्युश् चामृतं च (…) ॥

6.5.12

यथा सत्यं चानृतं च (…) ॥

6.5.13

यथा भूतं च भव्यं च
न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेर्
एवा मे ऽपान मा रिषः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc