पैप्पलाद-संहिता · अध्याय 5.38
केश्य् अग्निं केशी विषं
केशी बिभर्ति रोदसी ।
केशी विश्वं स्वर् दृशे
केशीदं ज्योतिर् उच्यते ॥
मुनयो वातरशनाः
पिशङ्गा वसते मलाः ।
वातस्यानु ध्राजिं यन्ति
यद् देवासो अयुक्षत ॥
उन्मदिता मौनेयेन
वाताँ आ तस्थिमा वयम् ।
शरीरेद् अस्माकं यूयं
मर्तासो अभि पश्यथ ॥
अन्तरिक्षेण पतति
स्वर् भूतावचाकशत् ।
मुनिर् देवस्य-देवस्य
सौकृत्याय सखा हितः ॥
इन्द्रस्याश्वो वायोः सखा-
-अथो देवेषितो मुनिः ।
उभा समुद्राव् आ क्षयति
सद्यः पूर्वम् उतापरम् ॥
गन्धर्वाणाम् अप्सरसां
देवानां चरणे चरन् ।
मुनिः केतस्य संविद्वान्
सखा स्वादुर् मदिन्तमः ॥
वायुर् अस्मा उपामन्थत्
पिनष्टि स्मा कुनंनमा ।
मुनिर् विषस्य पात्रेण
यद् रुद्रेणापिबत् सह ॥
संयुक्ते द्यावापृथिवी
तिष्ठन्ती अविचर्त्ये ।
केशेनैकस्य देवस्य
व्य् अष्टभ्नाच् छचीपतिः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0