पैप्पलाद-संहिता · अध्याय 5.39
न तम् अंहो न दुरितं
देवासो अष्ट मर्त्यम् ।
सजोषसो यम् अर्यमा
मित्रो नयन्ति वरुणो
अति द्विषः ॥
तद् धि वयं वृणीमहे
वरुण मित्रार्यमन् ।
यन् नो निर् अंहसो यूयं
पाथ नेथा च मर्त्यम्
अति द्विषः ॥
ते नूनं नो यूयम् ऊतये
वरुण (…) ।
नयिष्ठा नो नेषिण स्थ
पर्षिष्टाः पर्षिणो
अति द्विषः ॥
शुनम् अस्मभ्यम् ऊतये
वरुण मित्रार्यमन् ।
शर्म यच्छाथ सप्रथ
आदित्यासो यद् ईमहे
अति द्विषः ॥
आदित्यासो अति स्रिधो
वरुणो मित्रो अर्यमा ।
रुद्रं मरुद्भिर् उग्रं हुवेम-
-इन्द्रम् अग्निं स्वस्तये
अति द्विषः ॥
नेतार ऊ षु णस् तिरो
वरुणो मित्रो अर्यमा ।
अति विश्वानि दुरिता
राजानश् चर्षणीनाम्
अति द्विषः ॥
यूयं विश्वं परि पाथ
वरुण मित्रार्यमन् ।
युष्माकं शर्मणि प्रिया
स्याम सुप्रणीतयो
ऽति द्विषः ॥
यथा ह त्यद् वसवो गौर्यं चित्
पदि षिताम् अमुञ्चता यजत्राः ।
एवो ष्व् अस्मन् मुञ्चता व्य् अंहः
प्र तार्य् अग्ने प्रतरं न आयुः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0