भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 5.23

5.23.1

ईशानं त्वा भेषजानां
विजेषाय वृणीमहे ।
चक्रे सहस्रवीर्यं
सरस्वान् ओषधे त्वा ॥

5.23.2

सत्यजितं शपथयावनीं
सहमानां पुनःसराम् ।
सर्वाः सम् अह्व्य् ओषधीर्
इतो मा पारयान् इति ॥

5.23.3

या शशाप शपनेन
या वा घ मूरम् आदधे ।
या वा रसस्य प्राशाय -
- आरेभे तोकम् अत्तु सा ॥

5.23.4

प्रतीचीनफलो हि त्वम्
अपामार्ग बभूविथ ।
सर्वान् मच् छपथाँ अधि
वरीयो यावया त्वम् ॥

5.23.5

यच् च भ्रातृव्यः शपति
यच् च जामिः शपाति नः ।
ब्रह्मा यन् मन्युतः शपात्
सर्वं तन् नो अधस्पदम् ॥

5.23.6

यां ते चक्रुर् आमे पात्रे
यां सूत्रे नीललोहिते ।
आमे मांसे कृत्यां यां चक्रुस्
तया कृत्याकृतो जहि ॥

5.23.7

दुष्वप्न्यं दुर्जीवितं
रक्षो अभ्वम् अराय्यः ।
दुर्वाचः सर्वं दुर्भूतं
तद् इतो नाशयामसि ॥

5.23.8

क्षुधामारं तृष्णामारम्
अगोताम् अनपत्यताम् ।
अपामार्ग त्वया वयं
सर्वं तद् अप मृज्महे ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc