भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 5.21

5.21.1

द्यौश् च नः पिता पृथिवी च माता-
-अग्निश् च नृचक्षा जातवेदाः ।
ते तक्मानम् अधराञ्चं न्यञ्चं
दशाह्नम् अस्यन्त्व् अधि दूरम् अस्मत् ॥

5.21.2

तक्मन् यं ते क्षेत्रभागम्
अपाभजं पृथिव्याः पूर्वे अर्धे ।
अतिहाय तम् अथ नो हिनस्सि
ग्राहिः किल त्वा ग्रहीष्यति किलासशीर्षः ॥

5.21.3

तक्मन् पर्वता इमे
हिमवन्तः सोमपृष्ठाः ।
वातं दूतं भिषजं नो अक्रन्
नश्येतो मरटाँ अभि ॥

5.21.4

न त्वा स्त्रियः कामयन्ते
न पुमांसः कतमे चन ।
नेह तक्मकाम्या-
-अल्पो रोदिति नो महान् ॥

5.21.5

मा नो हिंसीर् महतो
मा हिंसीर् मह्यस् त्वम् ।
कुमारान् बभ्रो मा हिंसीर्
मा नो हिंसीः कुमार्यः ॥

5.21.6

यः साकम् उत्पातयसि
बलासं कासम् उद्रजम् ।
भीमास् ते तक्मन् हेतयस्
ताभि ष्म परि वृङ्धि नः ॥

5.21.7

अन्यक्षेत्रे न रमते
सहस्राक्षो ऽमर्त्यः ।
अभूद् उ प्रार्थस् तक्मा
स उ नो मृडयिष्यति ॥

5.21.8

तक्मन् न त इहाश्वा
न गावो नेह ते गृहाः ।
शकम्भरस्य मुष्टिहा
पुनर् गच्छ महावृषान् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc