पैप्पलाद-संहिता · अध्याय 4.27
दिवस् पृष्ठे मधुपृचः सुपर्णाः
पञ्चाशत् ते भुवनस्य गोपाः ।
आनुजावरम् अनु रक्षन्त उग्रा
येषाम् इन्द्रं वीर्यायैरयन्त ॥
पुरोहितः परमेष्ठी स्वराज्याय -
-अभीवर्धम् अस्मा अकृणोद् बृहस्पतिः ।
तेन सपत्नान् अधरान् कृणुष्व
क्षेमे पशून् बहुलान् वर्धयित्वा
जैत्रायोद् यातु रथवाहनं ते ॥
गोभाजम् अंशं तव ये समानाः
सर्वे समग्रा दधृग् आभरन्त ।
अभि वर्धस्व भ्रातृव्यान्
अभि ये त्वा पृतन्यतः ॥
नि पिण्ढि सर्वान् धूर्वतो
ऽभीवर्धो यथाससि ।
अभीवर्धम् अभीभवम्
अभीषेणं महागणम् ।
विशस् त्वा सर्वा आ यन्त्व्
आपो दिव्याः पयस्वतीः ॥
अभि वर्धस्व प्रजया वावृधानो
अभ्य् अनीकैः पशुभिर् भवासि ।
ब्रह्मराजन्यैर् विश्यैर् वावृधानः
शूद्रैर् अतीहि सभया पृतन्यतः ॥
वर्धस्व क्षेत्रैः प्रथस्व प्रजया
वर्धस्व वीरैः पशुभिर् बहुर् भव ।
श्रिया शुल्कैर् यतमस् त्वा पृतन्याद्
आप्तस् तुभ्यं स बलिहृत्याय तिष्ठतु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0