भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 4.28

4.28.1

इन्द्रं मित्रं वरुणम् अग्निम् ऊतये
मारुतं शर्धो अदितिं हवामहे ।
रथं न दुर्गाद् वसवः सुदानवो
विश्वस्मान् नो अंहसो निष् पिपर्तन ॥

4.28.2

त आदित्या आ गता सर्वतातये
भूत देवा वृत्रतूर्येषु शंभुवः ।
(…) ॥

4.28.3

अवन्तु नः पितरः सुप्रवाचना
उत देवी देवपुत्रे ऋतावृधा ।
(…) ॥

4.28.4

नराशंसं वाजिनं वाजयन्तं
क्षयद्वीरं पूषणं सुम्नैर् ईमहे ।
(…) ॥

4.28.5

बृहस्पते सदम् इन् नः सुगं कृधि
शं योर् यत् ते मनुर्हितं तद् ईमहे ।
(…) ॥

4.28.6

इन्द्रं कुत्सो वृत्रहणं शचीपतिं
काटे निबाढ ऋषिर् अह्वद् ऊतये ।
रथं न दुर्गाद् वसवः सुदानवो
विश्वस्मान् नो अंहसो निष् पिपर्तन ॥

4.28.7

देवैर् नो देव्य् अदितिर् नि पातु
देवस् त्राता त्रायताम् अप्रयुच्छन् ।
तन् नो मित्रो वरुणो मामहन्ताम्
अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc