पैप्पलाद-संहिता · अध्याय 4.15
सं मज्जा मज्ज्ञा भवतु
सम् उ ते परुषा परुः ।
सं ते राष्ट्रस्य विस्रस्तं
सं स्नाव सम् उ पर्व ते ॥
मज्जा मज्ज्ञा सं धीयताम्
अस्थ्नास्थ्य् अपि रोहतु ।
स्नाव ते सं दध्मः स्नाव्ना
चर्मणा चर्म रोहतु ॥
लोम लोम्ना सं धीयतां
त्वचा सं कल्पयात् त्वचम् ।
असृक् ते अस्ना रोहतु
मांसं मांसेन रोहतु ॥
रोहिणी संरोहिण्य्
अस्थ्नः शीर्णस्य रोहिणी ।
रोहिण्याम् अह्नि जातासि
रोहिण्य् अस्य् ओषधे ॥
यदि शीर्णं यदि द्युत्तम्
अस्थि पेष्ट्रं त आत्मनः ।
धाता तत् सर्वं कल्पयात्
सं दधत् परुषा परुः ॥
यदि वज्रो विसृष्टस् त्वार
काटं पतित्वा यदि वा विरिष्टम् ।
वृक्षाद् वा यद् अवसद् दशशीर्ष
ऋभू रथस्येव सं दधामि ते परुः ॥
उत् तिष्ठ प्रेहि सम् अधायि ते परुः
सं ते धाता दधातु तन्वो विरिष्टम् ।
रथः सुचक्रः सुपविर् यथैति
सुखः सुनाभिः प्रति तिष्ठ एवम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0