पैप्पलाद-संहिता · अध्याय 4.14
यस्मिन्न् आशीः प्रतिहित इदं तच्
छल्यो वेणुर् वेष्टनं तेजनं च ।
सूनुर् जनित्रीं जनयेहि शृण्वन्न्
अयं त आत्मेत इत् प्रहितः ॥
अस्थि भित्त्वा यदि मज्ज्ञः पपाथ
यदि वासि रतः पुरुषन्तिकामे ।
उर्वीं गव्यूतिम् अभ्य् एह्य् अर्वाङ्
पश्चा रश्मीन् उद्यतः सूर्यस्य ॥
मातरिश्वा पवमानस् त्वायन्
सूर्य आभ्राजन् तन्वा दृशे कः ।
अस्नो गन्धात् पुवसः प्र च्यवस्व
वि मुच्यस्व योन्या या ते अत्र ॥
प्र च्यवस्वातो अभ्य् एह्य् अर्वाङ्
अर्थांस् ते विद्म बहुधा बहिर् ये ।
इमाः स्वसारो अयम् इत् पिता त
इयं ते मातेमम् एहि बन्धुम् ॥
अमित्रैर् अस्ता यदि वासि मित्रैर्
देवैर् वा देवि प्रहितावसृष्टा -
- आविद्धा शृङ्गं पुरुषे जहाथ ।
बाणः शृङ्गं शिखरः सं सताम् इतः ॥
शिखासु सक्तो यदि वास्य् अग्रे
यदि वासि सक्तः पुरुषस्य मांसे ।
दधृङ् न पाशाँ अपवृज्य मुक्त्वा-
-अक्षिशल्यः कृणुताम् आयनाय ॥
हस्ताद् धस्तं सम् अयो भ्रियमाणो
बहिष् ट्वा पश्यान् वीरुधां बलेन ।
अद्भिः प्रणिक्तः शयासा अभ्यक्तः
कोशे जामीनां निहितो अहिंसः ॥
षष्टिरात्रे षष्टिकस्य
शल्यस्य परिधिष् कृतः ।
इतस् तम् अद्य ते वयम्
आस्थानाच् च्यावयामसि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0