भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 3.39

3.39.1

या ते प्रजापिहिता पुराभूद्
ध्रुवेणाश्विनाप तं भरामि ।
अग्निष् टे तामाद्यमः पुनर् दाद्
वैश्वानरः परमस्माद् व्योम्नः ॥

3.39.2

त्वं पतिः शिवो ऽग्ने द्वितीयो
*ऽस्यै प्रजां जरदष्टिं सृजस्व ।
मुञ्चैनां ग्राह्या निरृतिर् यद् बन्ध-
-अग्ने प्रजां प्रजाकामायै धेहि ॥

3.39.3

त्वाम् अग्ने वृषभं वाशितेयम्
आच्या जानु पुत्रकामा सपर्यति ।
ताम् आ रोह सुमनस्यमानः
प्रजापतेः प्रजया सं सृजैनाम् ॥

3.39.4

तुभ्यं नारी पुत्रकामेयम् अग्ने
शुद्धं पूतं घृतम् आ जुहोति ।
ताम् अधि स्कन्द वीरयस्व रेतोधा
उग्रः प्रजया सं सृजैनम् ॥

3.39.5

पर्वताद् दिवो योनेर्
गात्राद्गात्रात् समाशृतम् ।
रेतो देवस्यदेवस्य
त्सरौ पर्णम् इवाधाम् ॥

3.39.6

इन्द्रस्य जातस्य प्र पपात नाभिस्
ताम् एको देवः प्रति जग्राह कामी ।
त्वया वयं ब्राह्मणाः सोमपाः
सूपयाम उत या न सूते ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc