पैप्पलाद-संहिता · अध्याय 3.27
हन्तायम् अस्त्व् अप्रतिघात्यः
सासह्वाँ इन्द्रः पृतना अभिष्ठिः ।
प्रजापतिर् अदधाद् ओजो अस्मै
बृहद् धविर् हविषा वर्धनेन ॥
प्रजापते हविषा वर्धनेन
हन्तारम् इन्द्रम् अकृणोर् अघात्यम् ।
तस्मै विशो देवकृता नमन्त
स हि हन्ता स हि हव्यो बभूव ॥
प्रजापते अभि नो नेष वस्य
उर्वीं गव्यूतिम् अभिमातिषाहः ।
वर्धयन्न् इन्द्रं बृहते रणाय
देवं देवेन हविषा वर्धनेन ॥
यथा विश्वाः पृतनाः संजयासि
यथा शत्रून् सहमानः सहासै ।
यथासः सम्राट् सुसम्राड्
एवा त्वेन्द्रो ऽप्रतिवधं कृणोतु ॥
अयं वीरो ऽप्रति हन्तु शत्रून्
विश्वे देवा अप सदस् कराथ ।
मास्य प्रजां रीरिषन् मोत वीरान्
इमम् इन्द्रो ऽप्रतिवधं कृणोतु ॥
जहि शत्रून् प्रति रन्धयस्व-
-अग्निष् टे गोपा अधिपा वसिष्ठः ।
शर्म ते राजा वरुणो नि यच्छाद्
एवा त्वेन्द्रो ऽप्रतिवधं कृणोतु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0