पैप्पलाद-संहिता · अध्याय 3.26
गृहान् ऐमि मनसा मोदमान
ऊर्जं बिभ्रद् वसुमनिः सुमेधाः ।
अघोरेण चक्षुषा मित्रियेण
गृहाणां पश्यन् पय उत् तरामि ॥
इमे गृहा मयोभुव
ऊर्जस्वन्तः पयस्वन्तः ।
पूर्णा वामस्य तिष्ठन्तस्
ते नो जानन्तु जानतः ॥
सूनृतावन्तः सुभगा
इरावन्तो हसामुदाः ।
अक्षुध्या अतृष्यासो
गृहा मास्मद् बिभीतन ॥
येषाम् अध्येति प्रवसन्
येषु सौमनसो बहुः ।
गृहान् उप ह्वयामहे
ते नो जानन्त्व् आयतः ॥
उपहूता इव गाव
उपहूता अजावयः ।
अथो अन्नस्य कीलाल
उपहूतो गृहेषु नः ॥
उपहूता भूरिधनाः
सखायः स्वादुसंमुदः ।
अरिष्टाः सर्वपूरुषा
गृहा नः सन्तु सर्वदा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0