पैप्पलाद-संहिता · अध्याय 20.45
विश्ववित् तं नष्टम् अनु पश्यसि ।
अदो मे नष्टं तन् मे पुनर् देहि ॥
विश्वकर्मन् तत् त्वम् उप गच्छसि ।
अदो मे नष्टं तन् मे पुनर् देहि ॥
विश्वव्यचस् तत् त्वय्य् अध्य् आहितम् ।
अदो मे नष्टं तन् मे पुनर् देहि ॥
परि पूषा पुरस्ताद्
धस्तं दधातु दक्षिणम् ।
पुनर् नो नष्टम् आयति
जीवेन भुनजामहै ॥
इन्द्रस् त्वाभ्य् ऐत् सर्पत्
तत् त्वा गोष्ठ आदधात् ।
तद् आस्रावस्य भेषजं
तद् उ रोगम् अनीनशत् ॥
विष्णोर् मनसा पूते स्थः ।
देवो वां सवितोत् पुनातु ॥
विष्णोर् मनसा पूतम् असि
देवस् त्वा सवितोत् पुनातु ।
अच्छिद्रेण पवित्रेण
सहस्रधारेण सुप्वा ॥
हृदा पूतं मनसा जातवेदो
विश्वानि देवो वयुनानि विद्वान् ।
सप्तास्यानि तव यान्य् अग्ने
तेभ्यो जुहोमि स जुषस्व हव्यम् ॥
अग्नाव् अग्निर् इत्य् एका ॥
यस् ते केशाँ अवाचीनान्
क्रिमिर् वृहति मूर्धतः ।
प्राणं तस्योप दाशयाद्
वीरुत् खनति भेषजी ॥
वेद वै ते भग नाम
भूरिर् नामासि रयिर् नाम ।
तं त्वा भग प्र विशामि
स मा भग प्र विश ।
तस्मिन् सहस्रकाण्डेन
मृजे भग त्वयि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0