भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.33

20.33.1

यत् ते देवा अकृण्वन् भागधेयम्
अमावास्ये संवसन्तो महित्वा ।
सेमं यज्ञं पिपृहि विश्ववारे
रयिं नो धेहि सुभगे सुवीरम् ॥

20.33.2

घृतं ते अग्ने दिव्ये सधस्थे
घृतेन त्वा मनुर् अद्या सम् ईधे ।
घृतं ते देवा आप्या वहन्ति
घृतं तुभ्यं दुह्रते गावो अग्रे ॥

20.33.3

मय्य् अग्रे अग्निं गृह्णामि
सह क्षत्रेण वर्चसा बलेन ।
मयि प्रजां मय्य् आयुर् दधामि
स्वाहा मय्य् अग्निः ॥

20.33.4

अप्सु ते राजन् वरुण
गृहो मितो हिरण्ययः ।
ततो धृतव्रतो राजा
सर्वा धामानि नो मुचेः ॥

20.33.5

धाम्नोधाम्नो राजन्न्
इतो वरुण नो मुचेः ॥

20.33.6

यद् आपो अघ्न्या इति
वरुणेति यद् ऊचिम ।
ततो वरुण नो मुचेः ॥

20.33.7

यो रुद्रो अग्नौ यो अप्स्व् अन्तर्
य ओषधीर् वीरुध आविवेश ।
य इमा विश्वा भुवनानि चाक्ल्̥पे
तस्मै रुद्राय नमो अस्त्व् अद्य ॥

20.33.8

अपेह्य् अरिर् अस्य् अरिर् वा असि ।
विषे विषम् अपृक्था
अहिम् एवाभ्य् अपेहि तं जहि ॥

20.33.9

पृतनाजितं सहमानम् अग्निम्
उग्रं हुवेम परमात् सधस्थात् ।
स नः पर्षद् अति दुर्गाणि विश्वहा
क्षासद् देवो ऽति दुरितान्य् अग्निः ॥

20.33.10

यद्य् अन्तरिक्षे यदि वात आस
यदि वृक्षेषु यदि वोलपेषु
यद् अश्रवन् पशव उद्यमानं
तद् ब्राह्मणं पुनर् अस्मान् उपैतु ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc