भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.32

20.32.1

प्रजावतीः सूयवसे रिशन्तीर्
मा वो विद्युत् तरन् मोत सेना ।
सुगे तीर्थे सुप्रपाणे पिबन्तीः
परिवृज्य वधं गोहनं चरन्तु ॥

20.32.2

पदज्ञा स्त रमतयः
संहिता विश्वरूपा
उप नो देवीर्
देवेभिर् एत ।
इमं गोष्ठम् इदं सदो
घृतेना नः सम् उक्षत ॥

20.32.3

या ग्रैव्या अपचितो
अथो या उपपक्षियाः ।
विजामन् या अपचितः स्वयंस्रसस्
ता इतो नाशयामसि ॥

20.32.4

सांतपना इदं हविर्
मरुतस् तज् जुजुष्टन ।
युष्माकोती रिशादसः ॥

20.32.5

यो नो मर्तो मरुतो दुर्हणायुस्
तिरश् चित्तानि वसवो जिघांसात् ।
तस्मिन् तान् पाशान् प्रति मुञ्चता यूयं
तपिष्ठेन तपसा हन्तना तम् ॥

20.32.6

संवत्सरीणा मरुतः स्वर्का
उरुक्षयाः सगणा मानुषेभ्यः ।
ते अस्मत् पाशान् प्र मुञ्चन्तु सर्वान्
सांतपना मत्सरा मादयिष्णवः ॥

20.32.7

धृषत् पिब कलशे सोमम् इन्द्र
वृत्रहा शूर समरे वसूनाम् ।
माध्यंदिने सवन आ जुषस्व
रयिष्ठानो रयिम् अस्मासु धेहि ॥

20.32.8

युनज्मि त्वा ब्रह्मणा दैव्येन्-
-आस्मै क्षत्राणि धारयन्तम् अग्ने ।
दिदिड्ढ्य् अस्मभ्यं द्रविणेह भद्रा
प्रेमं वोचो हविर्दां देवतासु ॥

20.32.9

वि ते मुञ्चामि रशनां
वि योक्त्रं वि नियोजनम् ।
इहैव त्वम् अजस्र एध्य् अग्ने ॥

20.32.10

प्रजापते न हि त्वद् अन्यो
विश्वा रूपाणि महिना जजान ।
यत्कामास् ते जुहुमस् तन् नो अस्तु
वयं स्याम पतयो रयीणाम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc