भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.31

20.31.1

दिवि तारा उदभि श्र्यन्
सप्त सूर्यस्य रश्मयः ।
धाराः समुद्रिया अपस्
तास् ते शल्यम् अचुच्यवुः ॥

20.31.2

ईडे अग्निं स्वावसुं नमोभिर्
इह प्रसक्तो वि चयत् कृतं नः ।
रथैर् इव प्र भरे वाजयद्भिः
प्रदक्षिणं मरुतां स्तोमम् ऋध्याम् ॥

20.31.3

सप्त स्रवन्ति शिशवे मरुत्वते
पिता पुत्रेभ्यो अप्य् अवीवतद् व् ऋता ।
उभे पिपृत उभे अस्य राजत
उभे यतेते उभे अस्य पुष्यतः ॥

20.31.4

वेदः स्वस्तिर् द्रुहणः स्वस्तिः
पर्शुर् वेदिः परशुर् नः स्वस्तिः ।
हविष्कृतो यज्ञिया यज्ञकामास्
ते देवासो हविर् इदं जुषध्वम् ॥

20.31.5

उप प्रियं पनिप्नतं
युवानम् आहुतीवृधम् ।
अगन्म बिभ्रतो नमः ॥

20.31.6

इमा यास् ते शतं हिराः
सहस्रं धमनीर् उत ।
तासां ते सर्वासां साकम्
अश्मना बिलम् अप्य् अधाम् ॥

20.31.7

इदं खनामि भेषजं
मांपश्यम् अभिरोरुदम् ।
येना निचक्र आसुर्-
-ईन्द्राणी केवलं पतिम् ॥

20.31.8

अक्ष्यौ नौ मधुसंकाशे
अनीकं नौ समञ्जनम् ।
अन्तः कृणुष्व मा हृदि
मन इन् नौ सहासति ॥

20.31.9

त्वाष्ट्रेणाहं वचस्-
-एर्ष्यां व्य् अमीमदम् ।
अथो यो मन्युस् ते पते
तम् उ ते शमयामसि ॥

20.31.10

व्रतेन त्वं व्रतपते समक्तो
ऽहा विश्वा सुमना दीध्यो नः ।
तं त्वा वयं जातवेदः समिद्धं
प्रजावन्त उप सदेम सर्वे ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc