भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.57

2.57.1

यदीदं देवो दिव आजगाम
यद्य् अन्तरिक्षाद् यदि पार्थिवो यः ।
यदि यज्ञो यज्ञपतेः स्वर्गस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥

2.57.2

यम् इन्द्रम् आहुर् वरुणं यम् आहुर्
यं मित्रम् आहुर् यम् उ सोमम् आहुः ।
यम् अग्निम् आहुर् यम् उ सूर्यम् आहुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥

2.57.3

ये श्मशानानि मनसा नयन्ति
सूर्यस्य रश्मीन् अनुसंचरन्ति ।
ये देवानाम् ऋत्विजो यज्ञियानां
तेभ्यः सर्वेभ्यो नमसा विधेम ॥

2.57.4

ये तन्द्रिया जल्प्या प्रोर्णुवन्ति
स्वप्नं दुर्भूतम् अभि ये किरन्ति ।
ये देवानां धर्मधृतो बभूवुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥

2.57.5

स्वभ्यसैर् अभि ये भायन्ते
ये भाः कृण्वन्ति य उ रोदयन्ति ।
ये वा स्त्रीणां प्रतिरूपा बभूवुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc