पैप्पलाद-संहिता · अध्याय 2.56
उग्रा नाम स्थ
तेषां वः पुरो गृहाः प्राची दिक्
तेषां वो अग्निर् इषवः ।
ते नो मृडत द्विपदे चतुष्पदे
तेषां वो यान्य् आयुधानि या इषवस्
तेभ्यो नमस् तेभ्यः स्वाहा ॥
क्रव्या नाम स्थ
तेषां वो दक्षिणा गृहा दक्षिणा दिक्
तेषां व आप इषवः ।
(…) ॥
विराजो नाम स्थ
तेषां वः पश्चाद् गृहाः प्रतीची दिक्
तेषां वः काम इषवः ।
(…) ॥
अवस्था नाम स्थ
तेषां व उत्तराद् गृहा उदीची दिक्
तेषां वो वात इषवः ।
(…) ॥
उत्तरे नाम स्थ
तेषां व उपरि गृहा ऊर्ध्वा दिक्
तेषां वो वर्षम् इषवः ।
ते नो मृडत द्विपदे चतुष्पदे
तेषां वो यान्य् आयुधानि या इषवस्
तेभ्यो नमस् तेभ्यः स्वाहा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0