पैप्पलाद-संहिता · अध्याय 2.36
या वैश्वदेवीर् इषवो या वसूनां
या रुद्रस्य सोमस्य या भगस्य ।
विश्वे देवा इषवो यावतीर् वस्
ता वो अग्निना शर्मणा शमयामि ॥
या आदित्यानाम् इषवो या वसूनां
या रुद्रस्याश्विनोर् यावतीस् ताः ।
विश्वे देवा इषवो यावतीर् वस्
ता वो देवः सविता शमयाति ॥
यास् ते अग्न इषवो वात यास् ते
अपाम् अदित्याम् उत या मरुत्सु ।
इन्द्रश् च साम्ना वरुणश् च राजा
ता वः सूर्यो बृहता शमयाति ॥
मा वृक्ष्मह्य् आदित्येभ्यो मा वसुभ्यो
मा रुद्रायाग्नये पार्थिवाय ।
इन्द्रस्य शुचो वरुणस्य याः शुचस्
ता वो देव्य् अदितिः शमयाति ॥
याश् च वाते विष्वग्वाते
याश् च रुद्रस्य धन्वनि ।
अग्निष् टा वसोर् ईशानः
सर्वास् ता भेषजा करत् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0