भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.35

2.35.1

उद् असौ सूर्यो अगात्
सह वहतुना मम ।
अहं ते मधुमती
मधुघान् मधुमत्तरा ॥

2.35.2

यद् गिरिषु पर्वतेषु
गोष्व् अश्वेषु यन् मधु ।
सुरायां सिच्यमानायां
कीलाले मधु तन् मयि ॥

2.35.3

यथा सुरा यथा मधु
यथाक्षा अधिदेवने ।
यथा ह गव्यतो मन
एवा माम् अभि ते मनः ॥

2.35.4

आ ते पदं पदेनादिष्य्
आ ते मनसा मनः ।
प्रत्यञ्चम् अग्रभं त्वा-
-अश्वम् इवाश्वाभिधान्या ॥

2.35.5

मह्यं त्वा द्यावापृथिवी
मह्यं देवी सरस्वती ।
मह्यं त्वा मध्यं भूम्या
उभाव् अन्तौ सम् अस्यताम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc