पैप्पलाद-संहिता · अध्याय 2.34
यच् च वर्चः कन्यासु
यच् च हस्तिष्व् आहितम् ।
हिरण्ये गोषु यद् वर्चस्
तस्य भक्षीय वर्चसः ॥
यच् च वर्चो राजरथे
यच् च राजस्व् आहितम् ।
निष्के रुक्मे च यद् वर्चस्
तस्य भक्षीय वर्चसः ॥
यद् अप्सु यद् वनस्पतौ
यद् अग्नौ यच् च सूर्ये ।
यज्ञे दक्षिणायां वर्चस्
तस्य भक्षीय वर्चसः ॥
वर्चस्वन् मे मुखम् अस्तु
वर्चस्वद् उत मे शिरः ।
वर्चस्वान् विश्वतः प्रत्यङ्
वर्चस्वान् वर्णो अस्तु मे ॥
सुभागं मे मुखम् अस्तु
सुभागम् उत मे शिरः ।
सुभागो विश्वतः प्रत्यङ्
सुभागो वर्णो अस्तु मे ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0