भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 19.54

19.54.1

बोधयैनं प्र बोधय
स्वप्तवे मानु मन्यथाः ।
ऊर्ध्वस् तिष्ठान् ममाध्या
नान्यासां कीर्तयाश् चन ॥

19.54.2

आ वर्तय नि वर्तय-
-अभ्य् आ वर्तया कुरु ।
इदम् अस्य सर्वा चित्तानि
स्मरेण प्र जयामसि ॥

19.54.3

स्मरं तपन्ति मरुतः
समिद्धे जातवेदसि ।
उद् अस्य पततां मनस्
तद् अस्य रमतां मयि ॥

19.54.4

गणपते गणपतिं मा कृणु
तस्मान् मा यवम् ॥

19.54.5

अपिगणापिगणं मा कृणु
तस्मान् मा छित्सि ॥

19.54.6

सगण सगणं मा कृणु
तस्मान् मा नशम् ॥

19.54.7

गणवर्धन गणं मे वर्धय
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य ॥

19.54.8

गणाभिवर्धन गणं मे ऽभि वर्धय
गवाम् (…) अन्नाद्यस्य ॥

19.54.9

गणप्रवर्धन गणं मे प्र वर्धय
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणाम् भूत्या अन्नाद्यस्य ॥

19.54.10

यच् च खातं यच् चाखातं
सर्वं तद् अरसं विषम् ॥

19.54.11

यच् च पिष्टं यच् चापिष्टं
सर्वं तद् अरसं विषम् ॥

19.54.12

यच् च दिग्धं यच् चादिग्धं
सर्वं तद् अरसं विषम् ॥

19.54.13

यथा वृकी जग्धपुत्रा
व्याघ्री वालला भवेत् ।
एवा त्वम् अलला भव-
-आधीभिः प्रेषितो मम ॥

19.54.14

यथा दीप्तं शरतूलम्
अग्निनालला भवेत् ।
एवा त्वम् अलला भव-
-आधीभिः प्रेषितो मम ॥

19.54.15

आ क्रन्दयालला भव
दस्य कामेन शुष्य च ।
आधीभिः प्रेषितो मम ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc