पैप्पलाद-संहिता · अध्याय 19.53
इषिरा चास्य् अजिरा चासि ।
प्रजापतेः समिद् असि संसितिर् नाम लोमशा ।
प्रजापतिष् ट्वया प्रतिष्ठाकामो ऽरुरुत स प्रत्य् अतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठद्
एवाहं त्वया प्रतिष्ठाकामः प्रति तिष्ठेषम् ।
आ मा वरो गमेद् आ मा ब्रह्मचारिणो गमेयुः स्वाहा ॥
भूतिश् चासि प्रतिष्ठा चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
अस्वप्ना चास्य् अनिलया चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
रुचिश् चासि यक्षं चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
कीर्तिश् चासि यशश् चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
अम्भश् चासि महश् चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
अन्नं चास्य् अन्नाद्यं चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
प्रयच्छन्ती चासि प्रददती चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
अनुकामा चासि कामदुघा चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
आहरन्ती चासि समाहरन्ती चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
दिशन्ती चासि प्रदिशन्ती चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
अनुमतिश् चास्य् अनुमन्यमाना चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
जितिश् चासि विजितिश् चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
सञ्जितिश् चासि सन्धनाजितं चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥
अग्निः पृथिव्या अधिपतिः
सोमस् त्वावतु विद्म त्वा विद्धि मा ।
अधिपतिर् अस्य् अधिपतिं मा कृणु
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य ॥
वायुर् अन्तरिक्षस्याधिपतिः
सोमस् (…) अन्नाद्यस्य ॥
सूर्यो दिवो अधिपतिः
सोमस् त्वावतु विद्म त्वा विद्धि मा ।
अधिपतिर् अस्य् अधिपतिं मा कृणु
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य ॥
विन्दद् वसवो विन्दन्तु मे गृहान्
प्रजां पशून् वित्तिं भूतिं प्रतिष्ठाम् ॥
आयद्वसव आ यन्तु मे गृहाः प्रजाः पशवो वित्तिर् भूतिः प्रतिष्ठा ॥
संयद् वसवः सं यन्तु मे गृहाः ।
प्रजाः पशवो वित्तिर् भूतिः प्रतिष्ठा ॥
जितिर् असि जीयासं पार्थ्वीः पृतना जीयासम् ॥
विजितिर् असि वि जेषीय मानुषीः पृतना जीयासम् ॥
संजितिर् असि सं जीयासं सर्वाः पृतना जीयासम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0