भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 19.23

19.23.1

साहसी नाम वा असि
सहसस् परि जज्ञिषे ।
सहस्वान् इन्द्रो देवेषु
सहसे त्वा खनामसि ॥

19.23.2

सहस्येन भेषजेन
दिव्येन शतपर्वणा ।
तेन सहस्रकाण्डेन
कृणोमि पुनराभृतिम् ॥

19.23.3

सहसो ऽहं भेषजस्य
दिव्यस्य नाम जग्रभ ।
व्य् आशिषैव तस्थिरे
यक्ष्मासः पुरुषाद् अधि ॥

19.23.4

अपेत एतु निरृतिर्
नेहास्या अपि किं चन ।
अपास्याः सत्वनः पाशान्
मृत्यून् एकशतं नुदे ॥

19.23.5

ये ते पाशा एकशतं
मृत्यो मर्त्याय हन्तवे ।
तांस् ते यज्ञस्य मायया
सर्वाँ अप यजामसि ॥

19.23.6

निर् इतो यन्तु नैरृता
मृत्यव एकशतं परः ।
सेधाम एषां यत् तमः
प्राणं ज्योतिश् च दध्महे ॥

19.23.7

त्रिषप्ता वारणा इमास्
ताभिर् माम् इन्द्रो अब्रवीत् ।
विषं वारयताम् इति
विषं दूषयताद् इति ॥

19.23.8

अप ब्रूतेदं मरुतो
महीन्द्रस्यापवाचनी ।
एषा सहस्रम् अर्हत्य्
एषा वारयते विषम् ॥

19.23.9

अस्थाद् द्यौर् अस्थात् पृथिव्य्
अस्थाद् विश्वम् इदं जगत् ।
अस्थुर् विषस्याभीतयः
प्रतिकूल इवाबलः ॥

19.23.10

यथा बाणः सुसंशितः
परापतत्य् आशुमत् ।
एवा काशे परा पत
साकं वातस्य ध्राज्या ॥

19.23.11

यथा चक्षुश् चक्षुष्मतः
परापतति केतुमत् ।
(…)
साकं सूर्यस्य रश्मिभिः ॥

19.23.12

यथा मनो मन्युकेतुं
परापतति योजना ।
एवा काशे परा पतत्
समुद्रस्यानु विक्षरम् ॥

19.23.13

इत एवाव गच्छत-
-उग्रा भवत माबलाः ।
ह्वयन्तु सर्वे वो देवाः
सर्वा वो वृणतां विशः ॥

19.23.14

यद् अवगमेन हविषा-
-अव वो गमयामसि ।
अत्रात इन्द्रः केवलीर्
विशो बलिहृतः करत् ॥

19.23.15

इन्द्रः कश्यप आद् अग्निर्
इडा तुरीया वः सखा ।
यद् भूतं भव्यम् आसन्वत्
तेनाव गमयामि वः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc