पैप्पलाद-संहिता · अध्याय 19.22
नमो अस्तु सर्पेभ्यो
ये के च पृथिवीम् अनु ।
ये अन्तरिक्षे ये दिवि
तेभ्यः सर्पेभ्यो नमः ॥
ये चामी रोचने दिवो
ये च सूर्यस्य रश्मिषु ।
येषाम् अप्सु सदस् कृतं
तेभ्यः सर्पेभ्यो नमः ॥
या इषवो यातुधानानां
या वा वनस्पतीनाम् ।
ये ऽवटेषु शेरते
तेभ्यः सर्पेभ्यो नमः ॥
यवोच्छिष्टं हविषा वर्धयेमं
यथा द्युम्नी कृणवद् वीर्याणी ।
सजूर् देवेभिर् अभि भूः सपत्नान्
आयुष्मत् क्षत्रम् अजरं ते अस्तु ॥
पुंसा यवेन हविषा पयस्वता-
- उच्छिष्टस्यायू रक्षन्तु देवाः ।
देवा ह्य् अस्मिन् नि दधुर् नृम्णं बृहद्
अस्मा इन्द्रो वयो दधातु ॥
सम् उच्छिष्टस्य हविषा सम् उक्थैः
सम् आयुषा वर्चसा पयो दधातु ।
देवा ह्य् अस्मिन् नि दधुर् नृम्णं बृहद्
अस्मा इन्द्रो वयो दधातु ॥
वायुर् एनाः समाकरत्
त्वष्टा पोषाय ध्रियताम् ।
इन्द्र आभ्यो अधि ब्रुवद्
रुद्रो भूम्ने चिकित्सतु ॥
यथा चक्रुर् देवासुरा
यथा मनुष्या उत ।
एवा सहस्रपोषाय
कृणुतं लक्ष्माश्विना ॥
लोहितेन स्वधितिना
मिथुनं कर्णयोः कृधि ।
अकर्ताम् अश्विना लक्ष्म
तद् अस्तु प्रजया बहु ॥
कृष्णं नियानं हरयः सुपर्णा
अपो वसाना दिवम् उत् पतन्ति ।
आ च वर्तन्ते सदनाद् ऋतस्य-
-आद् इद् घृतेन पृथिवी व्य् उद्यते ॥
पयस्वतीः कृणुताप ओषधीर् इमा
यद् एजथा मरुतो रुक्मवक्षसः ।
ऊर्जं च तत्र सुमतिं च पिन्वथ
यत्रा नरो मरुतः सिञ्चथा मधु ॥
उदप्लुतो मरुतस् ताँ इयर्त
वृष्ट्या यद् विश्वा निवतस् पृणाथ ।
एजाति गल्हा कन्येव तुन्नैरुन्
तुन्दाना पत्येव जाया ॥
त्वष्टेव पूषेर्यो दमूना
मही स्वस्तिर् वृषणा न आगन् ।
विश्वा आशाः सूयवसा संरराणो
ऽस्या रय्याः पुरएता न एधि ॥
एह यन्तु मधुमद् दुहाना
अनमीवा उशतीर् विश्वरूपाः ।
बह्वीर् भवन्तीर् उपजायमाना
इहेन्द्रो वो रमयतु गावः ॥
प्रजापतिर् जनयतु प्रजा इमास्
त्वष्टा दधातु सुमनस्यमानः ।
संवत्सर ऋतुभिः संविदानो
मयि पुष्टं पुष्टपतिर् दधातु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0