पैप्पलाद-संहिता · अध्याय 18.77
शम् अग्ने पश्चात् तप शं पुरस्ताच्
छम् अधरात् तप जातवेदः ।
एकस् त्रेधा विहितो जातवेदः
सम्यङ् एनं दक्षिणाग्निः ॥
पद्मानम् अग्नेर् विहितस्य ब्रह्मणा
समङ्गनं धेहि सुकृताम् उलोकम् ।
तम् अग्नयः समिद्धा आ भरन्तां
प्रजापत्यं मेध्यं जातवेदसः ।
शृतं कृण्वन्त इह मा वि चक्षणन् ॥
यज्ञ एति विततः कल्पमान
ईजानो अभि लोकं स्वर्गम् ।
तम् अग्नयः सर्वहुतं जुषन्तां
तम् अस्मिं देवा जानतां भागधेयम् ॥
ईजानश् चित्तम् आरुक्षद् अग्निं
नाकस्य पृष्ठं दिवम् उत्पतिष्यन् ।
तस्मै प्र भातु नभसो ज्योतिषीमान्
स्वर्गः पन्था वितरो देवयानः ॥
अग्निर् होताध्वर्युष् टे बृहस्पतिर्
इन्द्रो ब्रह्मा दक्षिणतस् ते अस्तु ।
हुतो ऽयं संस्थितो यज्ञ एतु
यत्र पूर्वम् अयनं हुतानाम् ॥
अपूपवान् क्षीरवांश् चरुर् एह सीदतु -
-उत्तभ्नुवन् पृथिवीं द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इह स्थ ॥
अपूपवान् द्रप्सवांश् चरुर् एह (…) ॥
अपूपवान् दधिवांश् चरुर् एह (…) ॥
अपूपवान् घृतवांश् चरुर् एह (…) ॥
अपूपवान् मांसवांश् चरुर् एह (…) ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0