पैप्पलाद-संहिता · अध्याय 18.60
अर्चामि वां वर्धायापो घृतस्नू
द्यावाभूमि शृणुतं रोदसी मे ।
अहा यद् देवा असुनीतिम् आयन्
मध्वा नो अत्र पितरा शशीताम् ॥
स्वावृग् देवस्यामृतं यदी गोर्
अतो जातासो धारयन्त उर्वी ।
विश्वे देवा अनु तत् ते यजुर् गुर्
दुहे यद् एनी दिव्यं घृतं वाः ॥
किं स्विन् नो राजा जगृहे कद् अस्य-
-अति व्रतं चकृमा को वि वेद ।
मित्रश् चिद् धि ष्मा जुहुराणो देवान्
श्लोको न यातान् अपि वाजो अस्ति ॥
दुर्मन्त्व् अत्रामृतस्य नाम
सलक्ष्मा यद् विषुरूपा भवाति ।
यमस्य यो मनवते सुमन्त्व्
अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन् ॥
यस्मिन् देवा विदथे मादयन्ते
विवस्वतः सदने धारयन्ते ।
सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून्
परि तद् द्योतनं चरतो अजस्रा ॥
यस्मिन् देवा मन्मनि संचरन्त्य्
अपाच्ये त्ये न वयम् अस्य विद्म ।
मित्रो नो अत्रादितिर् अनागान्
सविता देवो वरुणाय वोचत् ॥
सखाय आ शिषामहे
ब्रह्मेन्द्राय वज्रिणे ।
स्तुष ऊ षु नृतमाय धृष्णवे ॥
शवसा ह्य् असि श्रुतो
वृत्रहत्येन वृत्रहा ।
मघैर् मघोनो अति शूर दाससि ॥
स्तेगो न क्षाम् अत्य् एषि पृथिवीं
मही नु वाता इहा वान्तु भूमौ ।
मित्रो नो अत्र वरुणो अज्यमानो
ऽग्निर् वने न व्य् असृष्ट शोकम् ॥
स्तुहि श्रुतं गर्तसदं जनानां
राजानं भीमम् उपहत्नुम् उग्रम् ।
मृडा जरित्रे रुद्र स्तवानो
अन्यं ते अस्मन् नि वपन्तु सेन्यम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0