भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 18.61

18.61.1

सरस्वतीं देवयन्तो हवन्ते
सरस्वतीम् अध्वरे तायमाने ।
सरस्वतीं सुकृतो ह्वयन्त
सरस्वती दाशुषे वार्यं दात् ॥

18.61.2

सरस्वतीं यां पितरो हवन्ते
दक्षिणा यज्ञम् अभिनक्षमाणाः ।
आसद्यास्मिन् बर्हिषि मादयस्व-
- अनमीवा इष आ धेह्य् अस्मे ॥

18.61.3

सरस्वती या सरथं ययाथ-
-उक्थैः स्वधाभिर् देवि पितृभिर् मदन्ती ।
सहस्रार्घम् इडो अत्र भागं
रायस्पोषं यजमानाय धेहि ॥

18.61.4

उद् ईरताम् अवर उत् परास
उन् मध्यमाः पितरः सोम्यासः ।
असुं य ईयुर् अवृका ऋतज्ञास्
ते नो ऽवन्तु पितरो हवेषु ॥

18.61.5

आहं पितॄन् सुविदत्राँ अवित्सि
नपातं च विक्रमणं च विष्णोः ।
बर्हिषदो ये स्वधया सुतस्य
भजन्त पित्वस् त इहागमिष्ठाः ॥

18.61.6

इदं पितृभ्य इत्य् एका ॥

18.61.7

मातली कवैर् यमो अङ्गिरोभिर्
बृहस्पतिर् ऋक्मभिर् वावृधानः ।
यांश् च देवा वावृधुर् ये च देवान्
स्वाहान् ये स्वधयान् ये मदन्ति ॥

18.61.8

स्वादुष् किलायं मधुमाँ उतायं
तीव्रः किलायं रसवाँ उतायम् ।
उतो न्व् अस्य पपिवाँसम् इन्द्रं
न कश् चन सहत आहवेषु ॥

18.61.9

परेयिवांसं प्रवतो महीर् अनु
बहुभ्यः पन्थाम् अनुपस्पशानः ।
वैवस्वतं संगमनं जनानां
यमं राजानं हविषा दुवस्य ॥

18.61.10

यमो नो गातुं प्रथमो विवेद
नैषा गव्यूतिर् अपभर्तवा उ ।
यत्रा नः पूर्वे पितरः परेयुर्
एना जज्ञानाः पथ्या अनु स्वाः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc