पैप्पलाद-संहिता · अध्याय 18.37
यस्योद्धृतेष्व् अग्निष्व् अहुते अग्निहोत्र एवं विद्वान् व्रात्यो ऽतिथिः ।
स्वयम् एनम् अभ्युदेत्य ब्रूयाद्
व्रात्य क्वावात्सीर् इति व्रात्यो दकम् इति व्रात्य तर्पयन्त्व् इति ॥
यद् आह व्रात्य क्वावात्सीर् इति पथ एव तेन देवयानान् अव रुन्धे ।
(यद् आह) व्रात्योदकम् इत्य् अप एव तेनाव रुन्धे ।
यद् आह व्रात्य तर्पयन्त्व् इति प्राणम् एव तेन
वर्षायां सं कृणुते ॥
पुराग्निहोत्रस्य हवनाद् उपांशु कृण्वीत ।
व्रात्य यथा ते प्रियं तथास्त्व् इति
व्रात्य यथा ते निकामस् तथास्त्व् इति
व्रात्य यथा ते वशस्तथास्त्व् इति ॥
यद् आह व्रात्य यथा ते प्रियं तथास्त्व् इति
प्रियम् एव तेनाव रुन्धे प्रिये प्रियस्य भवत्य्
ऐनं प्रियं गच्छति य एवं वेद ॥
(यदाह व्रात्य यथा) ते निकामस् तथास्त्व् इति निकामम् एव तेनाव रुन्धे
निकामे निकामम् अस्य भवत्य् ऐनं निकामो गच्छति (य एवं वेद) ।
यद् आह व्रात्य यथा ते वशस् तथास्त्व् इति
वशम् एव तेनाव रुन्धे वशी वशस्य भवत्य्
ऐनं वशो गच्छति य एवं वेद ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0