पैप्पलाद-संहिता · अध्याय 18.25
बिभर्त्य् अंशुं प्रति मुञ्चते स्रजम्
उद् ऊहते रश्मीन् अंशुं बृहन्तम् ।
दिवाकरः पश्यति यत् परात् परं
प्राह्णा प्र वर्ष्मणा विश्वम् अप्राङ्
हिरण्ययो हरितः केतुर् उद्यन् ॥
आरोहञ् छुक्रो बृहतीर् अतन्द्रो
मर्त्यः कृणुते वीर्याणि ।
दिव्यः सुपर्णो महिषो वातरंहा
यत् सर्वान् लोकाँ अभि यद् विभाति ॥
अभ्य् अन्यद् एति पर्य् अन्यद् वसानो
ऽहोरात्राभ्यां महिषः कल्पमानः ।
सूर्यं वयं रजसि क्षियन्तं
गातुविदं हवामहे नाथकामाः ॥
पृथिवीप्रो महिषो नाधमानस्य
गातुर् अदब्धचक्षुः परि सर्वं बभूव ।
विश्वं संपश्यन् सुविदत्रो यजत्रः
शिवया नस् तन्वा शर्म यच्छात् ॥
पर्य् अस्य महिमा पृथिवीं समुद्रं
ज्योतिषा विभ्राजन् परि द्याम् अन्तरिक्षम् ।
अहोरात्राभ्यां सह संविदान
उपा न आयुः प्र तिराद् अरिष्टम् ॥
अबोध्य् अग्निः समिधा जनानां
प्रति धेनुम् इवायतीम् उषासम् ।
यह्वा इव प्र वयाम् उज्जिहानाः
प्र भानवः सिस्रते नाकम् अच्छ ॥
कुमारं माता युवतिर् गर्भम् अन्तर्
गुहा बिभर्ति न ददाति पित्रे ।
अनीकम् अस्य न मिनज् जनासः
पुरः पश्यन्ति निहितम् अरतौ ॥
तम् एतं त्वं युवते कुमारं
त्वेषी बिभर्षि महिषी जजान ।
उर्वीर् हि गर्भः शरदो ववर्ध-
-अपश्यं जातं यम् असूत माता ॥
यस्य तिस्रो वर्तन एकधा सतो
यस्मै बलिं देवजना हरन्ति ।
तस्यासौ द्यौः पृथिव्य् अन्तरिक्षं
गुहा तिष्ठन्ति वसुना समक्ताः ॥
नव दिवो देवजनेन गुप्ता
नवान्तरिक्षाणि नव भूमय इमाः ।
यस्मिन्न् इदं सर्वम् ओतं प्रोतं
यस्माद् अन्यन् न परं किं चनास्ति ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0