पैप्पलाद-संहिता · अध्याय 17.52
पृथग् रूपाणि बहुधा पशूनाम्
एकरूपो भवति सं समृद्ध्याम् ।
एतां त्वचं लोहिनीं तां नुदेथां
ग्रावा शुन्धाति मलग इव वस्त्रा ॥
जनित्रीव प्रति हृण्यासि सूनुं
सं त्वा दधामि पृथिवीं पृथिव्या ।
उखाः कुम्भीर् वेद्यां संचरन्तां
यज्ञायुधैर् आज्येनाभिषिक्ताः ॥
भूम्यां त्वा भूमिम् अधि धारयामि
तनूः समानी विकृता त एषा ।
यद्यद् युक्तं लिखितम् अर्पणं च
तेन मा सुस्रोर् अपि तद् वपामि ॥
अग्निः पचन् रक्षतु त्वा पुरस्ताद्
इन्द्रो रक्षाद् दक्षिणतो महित्वा ।
सोमस् त्वा दृंहाद् धरुणे प्रतीच्या
उत्तरात् त्वा वरुणः सं ददातै ॥
आ यन्तु दिवः पृथिवीं सचन्ते
भूम्याः सचन्ते उर्व् अन्तरिक्षम् ।
शुद्धाः सतीस् ता उ शुन्धन्त एव
ता नः स्वर्गम् अभि लोकं नयन्तु ॥
पूताः पवित्रैः पवन्ते अभ्राद्
दिवं च यन्ति पृथिवीं च लोकान् ।
ता जीवला जीवधन्याः प्रतिष्ठाः
पात्र आसिक्ताः पर्य् अग्निर् एन्धाम् ॥
उतेव प्रभ्वीर् उत संमितास
उत शुक्राः शुचयश् चामृतासः ।
ता ओदनं दम्पतिभ्यां प्रतिष्ठा
आपः शिक्षन्तीः प्रवता सुनाथाः ॥
उद् योधयन्त्य् अभि वल्गन्ती तप्ताः
फेनम् अस्यन्ति बहुलं च बिन्दुम् ।
योषेव दृष्ट्वा पतिम् ऋत्विया या-
-एतैस् तण्डुलैर् भवता सम् आपः ॥
संख्याता स्तोकाः पृथिवीं सचन्ते
प्राणापानैः संमिता ओषधीभिः ।
असंख्याता ओप्यमानाः सुवर्णाः
सर्वं समापं शुचयः शुचित्वम् ॥
उत्थापय सीदतो बुध्न एनान्
अद्भिर् आत्मानम् अपि सं सृजन्ताम् ।
अमासि पात्र उदकं यद् एतन्
मितास् तण्डुलाः प्रदिशो यतीमाः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0