पैप्पलाद-संहिता · अध्याय 17.51
ध्रुवेयं विराण् नमो अस्त्व् अस्यै
शिवा पुत्रेभ्य उत मह्यम् अस्तु ।
सा नो देव्य् अदिते विश्ववार
इर्य इव गोपा अभि रक्ष पक्वम् ॥
पितेव पुत्राँ अभि सं सचस्व नः
शिवा नो वाता इह वान्तु शग्माः ।
यम् ओदनं पचतो देवते इह
तं नस् तप उत सत्यं म वित्ताम् ॥
यद्यत् कृष्णः शकुन एह गत्वा
त्सरं विषक्तं बिल आससाद ।
दासी वा यद् आर्द्रहस्ता समङ्क्त
उलूखलं मुसलं शुन्धतापः ॥
अयं ग्रावा पृथुबुध्नो वयोधाः
पूतः पवित्रैर् अप हन्तु रक्षः ।
आ रोह चर्म महि शर्म यच्छ
मा दम्पती पौत्रम् अघं नि गाताम् ॥
वनस्पतिः सह देवैर् न आगन्
रक्षः पिशाचाँ अपबाधमानः ।
स उच्छ्रयातै प्र वदाति वाचं
तेन लोकाँ अभि सर्वाञ् जयेम ॥
सप्त मेधां पशवः पर्य् अगृह्णन्
य एषां मेदस्वान् उत यश् चकर्श ।
त्रयस्त्रिंशद् देवतास् त्वां सचन्ते
स नः स्वर्गम् अभि नेषि लोकम् ॥
स्वर्गं लोकम् अभि नो नयासि
सं जाया सह पुत्रैः स्याम ।
गृह्णामि हस्तम् अन्व् ऐत्व् अत्र
मा नस् तारीन् निरृतिर् मो अरातिः ॥
ग्राहिं पाप्मानम् अति ताँ अयाम
तमो व्यस्य प्र वदासि वल्गु ।
वानस्पत्य उद्यतो मा जिहिंसीर्
मा तण्डुलं वि शरीर् देवयन्तम् ॥
विश्वव्यचा घृतपृष्ठो भविष्यं
सयोनिर् लोकम् उप याहि विद्वान् ।
वर्षवृद्धम् उप यच्छ शूर्पे
त्विषिं पलावान् अप तद् विनक्तु ॥
त्रयो लोकाः संमिता ब्राह्मणेन
द्यौर् एवासौ पृथिव्य् अन्तरिक्षम् ।
अंशून् गृभितान् अनु संरभेथाम्
आ प्यायन्तां पुनर् आ यन्तु शूर्पात् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0