भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.88

16.88.1

या आपो याश् च देवता
या विराड् ब्रह्मणा सह ।
शरीरं ब्रह्म प्राविशच्
छरीरे ऽधि प्रजापतिः ॥

16.88.2

सूर्यश् चक्षुर् वातः प्राणं
पुरुषस्य वि भेजिरे ।
अथास्येतरम् आत्मानं
देवाः प्रायच्छन्न् अग्नये ॥

16.88.3

तस्माद् वै विद्वान् पुरुषम्
इदं ब्रह्मेति मन्यते ।
सर्वा ह्य् अस्मिन् देवताः
शरीरे ऽधि समाहिताः ॥

16.88.4

यदैभ्य स्थानम् अङ्गेषु
पिता लोकाँ अकल्पयत् ।
शरीरं सर्वा देवता
यथाङ्गम् अनु प्राविशन् ॥

16.88.5

अङ्गमङ्गं शरीरस्य
सर्वे देवा अनु प्राविशन् ।
पिता ह्य् एभ्यः प्रायच्छत्
तं लोकम् अपराजितम् ॥

16.88.6

तं लोकम् अपराजितं
सर्वे देवा अनु प्राविशन् ।
प्रजापतिर् यम् आभरच्
छरीरं बहुधा हितम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc