पैप्पलाद-संहिता · अध्याय 16.85
यन् मन्युर् जायाम् आवहत्
संकल्पस्य गृहाद् अधि ।
क आसञ् जन्याः के वराः
क उ ज्येष्ठवरो ऽभवत् ॥
तपश् चैवास्तां कर्म च-
-अन्तर् महत्य् अर्णवे ।
त आसन् जन्यास् ते वराः
स उ ज्येष्ठवरो ऽभवत् ॥
दश साकम् अजायन्त
देवा देवेभ्यः परः ।
यो वै तां विद्यान् नामथा
स वा अद्य महद् वदेत् ॥
प्राणापाणौ चक्षुः श्रोत्रम्
अक्षितिश् च क्षितिश् च या ।
व्यानोदानो वाङ् मनस् ते
वा आकूतिम् आ वहन् ॥
अजाता आसन्न् ऋतवो
ऽथो धाता बृहस्पतिः ।
इन्द्राग्नी अश्विना तर्हि
कं ते ज्येष्ठम् उपासत ॥
तपश् चैवास्तां कर्म च-
-अन्तर् महत्य् अर्णवे ।
तपो ह जज्ञे कर्मणस्
तं ते ज्येष्ठम् उपासत ॥
कुत इन्द्रः कुतः सोमः
कुतो अग्निर् अजायत ।
कुतस् त्वष्टा सम् अभवद्
धाता सम् अभवत् कुतः ॥
इन्द्राद् इन्द्रः सोमात् सोमो
अग्नेर् अग्निर् अजायत ।
त्वष्टा ह जज्ञे त्वष्टुर्
धाता धातुर् अजायत ॥
ये त आसन् दश जाता
देवा देवेभ्यः परः ।
पुत्रेभ्यो लोकं दत्त्वा
कस्मिन् ते लोक आसते ॥
येतो भूमिः पुर्वासीद्
याम् अद्धातय इद् विदुः ।
के तस्यां देवा आसते
कस्मिन्न् उ साधिश्रिता ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0