पैप्पलाद-संहिता · अध्याय 16.77
यत् ते काम शर्म त्रिवरूथम् उद्भिद्
ब्रह्म वर्म विततम् अनतिव्याध्यं कृतम् ।
तेन सपत्नान् परि वृङ्धि ये मम
पर्य् एनान् प्राणः प्रजाः पशवो जीवनं वृणक्तु ॥
अधराञ्चः प्र प्लवन्तां
छिन्ना नौर् इव बन्धनात् ।
न सायकप्रणुत्तानां
पुनर् अस्ति निवर्तनम् ॥
अग्निर् यव इन्द्रो यवः सोमो यवः ।
यवयावानो देव यावयन्त्व् अमुम्
आमुष्यायणम् अमुष्याः पुत्रं
जीवलोकान् मृतलोकं गतासुम् ॥
असर्ववीरश् चरति प्रणुत्तो
मित्राणां द्वेष्यः परिवर्ग्यः स्वानाम् ।
उत पृथिव्याम् अव स्यन्ति विद्युत
उग्रो देवः प्र मृणत् सपत्नान् ॥
च्युता चेयं बृहत्य् अच्युता च
विद्युद् बिभर्ति स्तनयित्नूंश् च सर्वान् ।
तेषाम् आदित्यो द्रविणेन तेजसा-
-उद्यन् सपत्नान् नुदतां मे सहस्वान् ॥
यथा देवा असुरान् प्राणुदन्त येन-
-इन्द्रो दस्यून् अधमं तमो बबाधे ।
तथा त्वं काम मम ये सपत्नास्
तान् अस्माल् लोकात् प्र णुदस्व सर्वान् ॥
येन देवा असुरान् प्राणुदन्त विश्वहा
येनेन्द्रो दस्यून् अधमं तमो बबाधे ।
तेन त्वं काम मम ये सपत्नास्
तान् अस्माल् लोकात् प्र णुदस्व दूरम् ॥
कामो जज्ञे प्रथमो नान्यत् पुरा
नैनं देवा आपुः पितरो नोत मर्त्याः ।
ततस् त्वम् असि ज्यायान् विश्वहा महांस्
तस्मै ते काम नाम इत् कृणोमि ॥
न वै वातश् चन कामम् आप
नाग्निः सूर्यो नोत चन्द्रमाः ।
(…) ॥
न वा आपश् चन कामम् आपुर्
नाहोरात्राणि विहितानि यन्ति ।
(…) ॥ ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0