भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.78

16.78.1

न वै पुण्यजनाश् चन कामम् आपुर्
न गन्धर्वाप्सरसो न सर्पाः ।
ततस् त्वम् असि ज्यायान् विश्वहा महांस्
तस्मै ते काम नम इत् कृणोमि ॥

16.78.2

यावती द्यावापृथिवी वरिम्णा
यावद् आपः सिष्यदुर् यावद् अग्निः ।
ततस् त्वम् असि ज्यायान् विश्वहा महांस्
तस्मै ते काम नम इत् कृणोमि ॥

16.78.3

यावतीर् दिशः प्रदिशो विषूचीर्
यावतीर् आशा अभिचक्षणा दिवः ।
ततस् त्वम् असि ज्यायान् विश्वहा महांस्
तस्मै ते काम नम इत् कृणोमि ॥

16.78.4

यावतीर् भृङ्गा जत्वः कुरूरवो
यावतीर् वघा वृक्षसर्प्यः ।
ततस् त्वम् असि ज्यायान् विश्वहा महांस्
तस्मै ते काम नम इत् कृणोमि ॥

16.78.5

यास् ते शिवास् तण्वस् काम भद्रा
याभिः सत्यं भवति यद् वृणीते ।
ताभिष् ट्वम् अस्मान् उप सं विशस्व-
-अन्यत्र पापीर् अप वेशया धियः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc