पैप्पलाद-संहिता · अध्याय 16.76
सपत्नहनम् ऋषभं घृतेन
कामं शिक्षामि हविषाज्येन ।
नीचैः सपत्नान् मम पादय
त्वम् अभिष्टुतो महता वीर्येण ॥
यन् मे मनसो न प्रियं न चक्षुषो
यन् मे हृदये नाभिनन्दति ।
तद् दुष्वप्न्यं प्रति मुञ्चामि सपत्ने
कामं तुष्टुवान् उद् अहं भिदेयम् ॥
दुष्वप्न्यं काम दुरितं च काम-
-अप्रजस्ताम् अस्वकृताम् अवर्तिम् ।
उग्र ईशानः प्रति मुञ्च तस्मिन्
यो अस्मभ्यम् अंहूरणा चिकित्सात् ॥
सा ते काम दुहिता धेनुर् उच्यते
याम् आहुर् वाचं कवयो विराजम् ।
तया सपत्नान् परि वृङ्धि ये मम
पर्य् एनान् प्राणः प्रजाः पशवो जीवनं वृणक्तु ॥
कामस्येन्द्रस्य वरुणस्य राज्ञो
विष्णोर् बलेन सवितुः सवेन ।
अग्नेर् होत्रेण प्र णुद सपत्नान्
शम्बीव नावम् उदकेषु धीरः ॥
अध्यक्षो वाजी मम काम उग्रः
कृणोतु मह्यम् असपत्नम् एव ।
विश्वे देवा मम नाथं भवन्तु
सर्वे देवा हवम् आ यन्तु म इमम् ॥
इदम् आज्यं घृतवज् जुषाणाः
कामज्येष्ठा इह मादयन्ताम् ।
कृण्वन्तु मह्यम् असपत्नम् एव ॥
इन्द्राग्नी काम सरथं हि भूत्वा
नीचैः सपत्नान् मम पादयाथ ।
तेषां पन्नानाम् अधमा तमांस्य्
अग्ने वास्तून्य् अनुनिर्दहा त्वम् ॥
जहि त्वं काम मम ये सपत्ना
अन्धा तमांस्य् अव पादयैनान् ।
अनिन्द्रिया अरसाः सन्तु सर्वे
यथा न जिवात् कतमच् चनैषाम् ॥
अवधीत् कामो मम ये सपत्ना
उरुं लोकम् अकरन् मह्यम् एधतुम् ।
मह्यं नमन्तां प्रदिशश् चतस्रो
मह्यं षड् उर्वीर् घृतम् आ वहन्तु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0