भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.63

16.63.1

अयं ते वरणो मणिः
सपत्नक्षयणः कृतः ।
तेना रभस्व त्वं शत्रून्
प्र मृणीहि दुरस्यतः ॥

16.63.2

ऐनाञ् छृणीहि प्र मृणा रभस्व
मणिस् ते अस्तु पुरएता पुरस्तात् ।
अवारयन्त वरणेन देवा
अभ्याचारम् असुराणां श्वःश्वः ॥

16.63.3

आ त्वारक्षद् वरणो विश्वभेषजः
सहस्राक्षो हरितो हिरण्ययः ।
यस् ते शत्रून् अधरान् पातयासि
पूर्वस् तान् दभ्नुहि य उ त्वा द्विषन्ति ॥

16.63.4

अयं ते कृत्यां विततां
पौरुषेयम् अयं वधम् ।
अयं ते सर्वं पाप्मानं
वरणो वारयिष्यते ॥

16.63.5

वरणो वारयाता
इदं देवो वनस्पतिः ।
यक्ष्मः प्रविष्टो यो ऽस्मिन्
तम् उ देवा अवीवरन् ॥

16.63.6

स्वप्नं सुप्त्वा यदि पश्यासि पापं
मृगः सृतिं यति धावाद् अजुष्टाम् ।
परिक्षवाच् छकुनेः पापवादाद्
अयं मणिर् वरणो वारयातै ॥

16.63.7

अरात्या मा निरृत्या
अभिचाराद् अथो भयात् ।
मृत्योर् ओजीयसो वधात्
त्वं वरण वारय ॥

16.63.8

वरणेन प्रव्यथिता
भ्रातृव्या मे सबन्धवः ।
असूर्तं रजो ऽप्य् अगुस्
ते यन्त्व् अधमं तमः ॥

16.63.9

यन् मे माता यन् मे पिता भ्रातरो
यच् च मे स्वा यद् एनश् चकृमा वयम् ।
तस्मान् नो वारयिष्यते
ऽयं देवो वनस्पतिः ॥

16.63.10

अरिष्टो ऽहम् अरिष्टगुर्
आयुष्मान् सर्वपूरुषः ।
तं मायं वरणो मणिः
परि पातु दिशोदिशः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc